________________
उक्तं प्रथमं भावसाधुलिङ्गम् । अधुना द्वितीयमाहसद्धा तिव्वभिलासो धम्मे पवरसणं इमं तीसे । विहिसे अतित्ती सुद्धदेसणा खलियेंपरिसुद्धी॥९०॥
श्रद्धा प्रवरा धर्म इति द्वितीयं लिङ्गमुक्तम् । तत्र श्रद्धा तीवः पटुरभिलापः कर्मक्षयोपशमसज्ज्ञानप्रभवः । न पुनर्विषयप्रतिभासमात्र, बालस्य रत्नग्रहाभिलाषवत् । 'धर्म' श्रुतचारित्ररूपे 'प्रवरत्वं' प्रधानत्वं विशेषणीकृतं ' इदं वक्ष्यमाणं 'तस्याः ' श्रद्धायाः फलभूतम् । तद्यथा-विधिसेवा १ अतृप्तिः २ शुद्धदेशना ३ स्खलितपरिशुद्धिः४ इति लिङ्गानि श्रद्धायाःप्रवरत्वस्य । इति गाथार्थः।।९०॥
एतान्येव प्रत्येकं विभावयिपुर्विधिसेवामधिकृत्याहविहिसारं चिय सेवइ सद्धालू सत्तिमं अणुट्ठाणं । दव्वाइदोसनिहओवि पक्खवायं वहइ तम्मि ॥११॥
विधिसारं ' विधिप्रधानमेव 'सेवते ' अनुतिष्ठति श्रद्धालुः' श्रद्धागुणवान् 'शक्तिमान् ' सामपितः सन् 'अनुष्ठानं' प्रत्युपेक्षणेषणादिकं कृत्य, श्रद्धालुत्वस्यान्यथानुपपत्तेः । यदि पुनः शक्तिमान स्यात्ततः का वार्ता ? इत्याह-द्रव्याण्याहारादीनि, आदिशब्दात् क्षेत्रकालभावाः परिगृह्यन्ते, तेषां दोषः प्रतिकूलता, तेन निहतोऽपि गाढपीडितोऽपि 'पक्षपातं' भावप्रतिबन्धं 'वहति' धारयति 'तस्मिन्नेव' विध्यनुष्ठान एव साधारणत्वाद्वाक्यस्य । इति गाथार्थः ॥ ९१ ।।
कथं पुनरनुष्ठानाभावे पक्षपातसंभवः ? इत्याहनिरुओ भोजरसन्नू कवि अवत्थं गओ असुहमन्नं । भुं न तंमि रजइ सुहभोयणलालसोपणियं ॥१२॥
'नीरुजओ' ज्वरादिरुजा रहितो भोज्यानि खण्डखाद्यादीनि, तेषां रसमास्वादविशेष जानातीति ‘भोज्य सज्ञः' 'कामप्य