________________
धीरजप्रकरणम्
स्वोपक्षचियुक्तम्
'इत्यादि ' एवंप्रकारं 'असमञ्जसं ' वक्तुमप्यनुचितं शिष्टानाम् , 'अनेकधा' अनेकाकारं क्षुद्राणां तुच्छसत्त्वानां चेष्टितमाचरितं 'लोके 'लिविजने 'बहुभिरपि ' अनेकैरप्याचीर्ण 'न ममाणं' मालम्बनहेतुः 'शुद्धचरणानां' निकलचारित्रिणाम् । अप्रमाणता चास्यागमनिषिद्धत्वात् , संयमविरुद्धत्वात् , अकारणप्रवृत्तत्वाच्च सम्यगालोचनीया । इति गाथार्थः ॥ ८८ ॥
एवमानुषनिकमभिधाय प्रस्तुतोपसंहारमाहगीयत्थपारतंता इस दुविहं मग्गमणुस्सरंतस्स । भावजइत्तं जुत्तं दुप्पसहतं जओ परणं ॥ ८९॥ ।
'गीतार्थपारतन्त्र्यात् ' आगयविदाजया 'इति' उक्तनीत्या 'द्विविधं ' द्विप्रकारं 'मार्गमनुसरतः ' तदनुसारेण व्यवहरतः साधोरिति गम्यते, 'भावयतित्वं' सुसाधुत्वं 'युक्तं ' उचित वक्तुमिति शेषः । किम् ? इस्यत आह-'दुषसहान्तं' दुष्प्रसहाचार्यपर्यन्त 'यतः ' यस्मात् 'चरण' चारित्रमागमे श्रूयत इति शेषः । अयमभिप्रायः-यविधाः सद्भावसारं यतमानाश्चारित्रिणी नाभ्युपगम्यन्ते, ततस्तदन्येषामनुपलम्भावयवच्छिन्न चारित्रम् । तथवच्छेदातीर्थ चेत्यायातम् । एतच प्रत्यक्षीभूतभूतभव
भाविभावस्वभावस्य भगवतो महावीरस्य वचसा सह विरुद्धमिति न प्रेक्षापूर्वकारिणः पतिपद्यन्ते । यतो व्यवहारभाष्यम्"केसि चिय आएसो दसणनाणेहि वट्टए तित्थ । वोच्छिन्नं च चरितं वयमाणे भारिया चउरो॥१॥जो भणइ नथि धम्मो न य सामइयं न येव य वयाई । सो समणसंघवज्झो कायव्वी 'सबसंघेण:॥२॥" इत्याचागमप्रामाण्याजीतव्यवहारिणः सुसाधव इति स्थितम् १॥ ८९॥
१ भम्यत्र " समणसंघेण" इत्युपलभ्यते ॥
*
*
*
*
॥ ५७॥