________________
धर्मरत्नप्रकरणम्
॥ ५१ ॥
काहनादीनां भावानां तेषु, 'निवसति ' तिष्ठति गृह इति गम्यते । अरक्तद्विष्ट इवारक्तद्विष्टः, 'संसारगतेषु' भवभाविषु 'भावेषु' पदार्थेषु । इयमत्र भावना - शरीरनिर्वाहकारणेष्वपि वस्तुषु मन्दादरो भवति भावभावकः । भावयति च " न य एत्थ कोइ सयनो न सरीरं नेय भोगउवभोगा । जीवो अन्नभगवई गच्छइ सव्र्व्वपि मोत्तन ॥ १ ॥ " तथा दुर्बिनीतपरिजनादावपि नातिद्वेषं विदध्यात्, अपि तु बहिर्वृन्यैव । यतः - " कोवाविट्ठो न मुणइ कजमकर्ज हियं च अहिर्य च । धम्माहम्मं च तहा कज्जविणासं व हाणि षा ॥ १ ॥” तथा — “क्षमी यत्कुरुते कार्यं न तत्कोपवशंगतः । कार्यस्य साधिनी प्रज्ञा सा च क्रुद्धस्य नश्यति ॥ १ ॥ १३ ॥ ७२ ॥
तथा
उवसमसारवियारो वाहिज्जइ नेयं रागदोसेहिं । मज्झत्थो हियकामी असग्गहं सव्वहा चयइ ॥ ७३ ॥
उपशमः कषायानुदयः, तत्सारं तत्प्रधानं विचारयति धर्मादिस्वरूपं यः स ' उपशमसारविचार: ' भावश्रावको भवति । कथं पुनरेवंविधः स्यात् ? इत्याह- यतो विचारं कुर्वन् 'बाध्यते' अभिभूयते नैव रागद्वेषाभ्याम् । तथा हि--' मयाऽयं पक्षः कक्षीकृतो बहुलोकसमक्षं, बहुमिव लोकैः प्रमाणीकृतस्तत्कथमिदानीमात्मानमप्रमाणीकरोमि ' इत्यादिभावनया स्वपक्षानुरागेण न जीयते । तथा ममैष प्रत्यनीको, मदीयपक्षदूषकत्वात् । तदेनं जनमध्ये धर्षयामीति सदसदूषणोद्घटनाक्रोशदानादिमवृत्तिहेतुना द्वेषेणापि नाभिभूते, किं तु 'मध्यस्थः ' सर्वत्र तुल्यचित्तो 'हितकामी' हिताभिलाषी, स्वस्य परस्य चोपकारमिच्छन् 'असग्राहं ' अशोभनामिनिवेशं सर्वथा ' त्यजति ' मुञ्चति मध्यस्थगीतार्थगुरुवचनेन । यतः “ तरिऊणवि मोहमहंतसायरं तीरनियड
९ अन्यत्र - नेव' इत्यपि ॥
खोवृतियुक्तम्
।। ५१ ।।