________________
36+36
तथा
"
पञ्चक्खाणं तु गिजा ॥ १ ॥ " दानविधिः- “ नायागयाणं कप्पणिजाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासकारकमयं पराए भत्ती आयाणुग्गहबुद्धीए संजयाण दाणं ॥ " इत्याद्याप्तागमपुरस्सरं सर्वाण्यपि कृत्यानि भावभावकः करोतीति १० ॥ ६१ ॥ अनिगूहितोसति आयावाहाए जह बहुं कुणइ । आयरइ तहा सुमई दाणाइचउन्विहं धम्मं ॥७०॥ अनिगूहन्' अगोपायन् 'शक्ति' सामर्थ्य ' आत्माबाधया' स्वस्य परिजनस्य च पीडां परिहरन् दानादिचतुर्विध धर्म आचरतीति योगः । यतोऽवाचि - “ न्यायात्तं स्वल्पमपि हि भृत्यानुपरोधतो महादानम् । दीनतपस्व्यादौ गुर्वनुज्ञयादानमन्यत्तु ॥ १ ॥" यथा ' बहु करोति ' बहुकालं यावन्तं कर्त्तुं शक्नोति । अयमत्र भावः सति विभवे नातितृष्णको भवति, तनुविभवो नात्युदारः स्यात्, सर्वाभावसंभवात् । अत एवोक्तं पञ्चसूत्रे - “ लाभोचिपदाणे लाभोचियभोयणे लाभोचियपरिवारे लाभोचियनिहिगरे सिया । " स एवं कुर्वाणो बहुना कालेन प्रभृतं दद्यात् । अन्यैरप्युक्तम् - " अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च वर्धनम् । अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु ॥ १ ॥ " एवं शीलतपोभावनास्वपि भावनीयम् । 'आचरति ' आसेवते ' तथा ' तेन प्रकारेण ' सुमतिः ' पारिणामिकीबुद्धिप्रधानो दानादिचतुर्विधं धर्ममिति स्पष्टं भावितं चेति ॥ ११ ॥ ७० ॥
तथा
हियमणवजं किरियं चिंतामणिरयणदुरहं लहिउं । सम्मं समायरंतो न हु लज्जइ मुद्वहसिओवि ॥ ७१ ॥ 'हितां ' पथ्यामिहलोक परलोकयोः, ' अनवद्यां ' अपापां ' क्रियां' अनुष्ठान वन्दनप्रतिक्रमणादिकं सम्यग् ' गुरूपदिष्ट