________________
जैन-चैत्य-स्तव, (३५९) शैलाने नागलोगे जलनिधिपुलिने दुर्गमध्येत्रिसंध्यं, ग्रामेरन्ये वने वा स्थलजलविषमें भूरुहाणां निकुंजे, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानिवंदे, ८ श्रीमन्मेरुकलाद्रौ रुचकनगवरे शाल्मलौ जंबुले, चौजन्य चैत्यनंदे रतिकररुचके कुंडलेमानुषांगे, इक्षुकारेंजनाद्रौं दधिमुखशिखरे व्यंतरे स्वर्गलोके, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्रचैत्यानि वंदे, इथ्यं श्रीजैनचैत्य स्तवनमनुदिनं ये पठति प्रवीणाः मोद्यत्कल्पाणहेतुं कलिमलहरणं भक्तिभाजस्त्रिसंध्यं, तेषांश्रीतीर्थयात्राफलमतुलमलं जायतेमानवाना; कार्याणांसिद्धिरुचैः प्रमुदितमनसां चित्तमानंदकारि. १०
(जैनतीर्थगाइडका-दुसरा-भाग-पूर्णहुवा,-)
[ अनुष्टुप-वृत्तम्. ]
उपः
१
अनर्घाण्यपि रत्नानि-लभ्यते विभवैःसुखं, दुर्लभो रत्नकोटयापि-क्षणोपि मनुजायुषः आर्यदेशश्च तत्रापि-मुकुलं निर्मलामतिः विशिष्ट गुरुसंपर्को-भूरिभाग्यैरवाप्यते, या देवे दवता बुद्धिः-गुरौ च गुरुता मतिः धर्मे च धर्मधी श्रद्धा-सम्यक्त मिदमुच्यते,
३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com