________________
गोचरप्रकरणम् ।
७९
गोदानं भूमिदानं च स्वर्णदानं विशेषतः । ग्रहणे क्लेशनाशाय दैवज्ञाय निवेदयेदिति । किंचात्र देशविशेषः पात्रविशेषो द्रव्यविशेषश्च नापेक्षित इत्याह व्यासः । सर्वं गंगासमं तोयं सर्वे ब्रह्मसमा द्विजाः । सर्वं भूमिसमं दानं ग्रहणे चंद्रसूर्ययोरिति । अन्यच्च । ग्रस्यमाने भवेत्स्नानं ग्रस्ते होमो विधीयते । मुच्यमाने भवेद्दानं मुक्ते स्नानं विधीयत इति । तस्मिन्काले जपादिकमपि विधेयम् । सूर्यैदुग्रहणं यावत्तावत्कुर्याज्जपादिकमिति शिवरहस्योक्तेः । आदिशब्दाद्देवार्चनादि कार्यम् । अथ स्थानविशेषेण ग्रहणमरिष्टजनकमित्युक्तम् । तद्दृष्टमुतादृष्टमपीति संशये निर्णयमाह । अथो इति तुर्विशेषे परे आचार्याः । अशुभदं ग्रहणं तु नो वीक्ष्यं न द्रष्टव्यमित्याहुः । उक्तं च । जन्मसप्ताष्टरिः फांकदशमस्थे निशाकरे । प्रदो राहुर्जन्म निधने तथा । जन्म जन्मनक्षत्रं निधनं वधतारा सप्तमी । अत्र दृष्ट इति पदश्रवणाद्दर्शनं चाक्षुषं विवक्षितमिति तेषामाशयश्चाक्षुषज्ञान एव । दृशेर्मुख्यत्वमिति परेषां मतम् तदसत् । अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः । शीघ्रमंदोच्च पाताख्या ग्रहाणां गतिहेतव इति सूर्यसिद्धांते पातानामदृश्यतोक्ता । पातो राहु पर्या - यः। दक्षिणोत्तरयोरेवं पातो राहुश्च रंहसा । विक्षिपत्येष विक्षेपश्चंद्रादीनामपक्रमादिति सूर्यसिद्धांतोक्तेः । अतः पातानामदृश्यत्वात् राहोर्दर्शनमेवानुपन्नम् । ननु ग्रहणे चंद्रसूर्ययोश्छादको राहुर्दृश्यत एव । अत एव राहुग्रस्ते निशाकरे इत्यादिपुराणोक्तिरपीति चेन्न । भानोभ महीछाया तत्तुल्येऽर्कसमेऽपि वा । शशांकपाते ग्रहणं कियद्भागाधिकोनक इत्युपक्रम्य छादको भास्करस्येंदुरस्थो घनवद्भवेत् । भूछायां प्राङ्मुखचंद्रो विशत्यस्य भवेदसौ । अस भूछाया अस्य चंद्रस्य छादका भवेदित्यर्थः । सूर्यसिद्धांते छाद्यछादकभावोऽभिहितः स्पष्ट एव । पुराणविरोधपरिहारस्तु भास्करेणैव राहुः कुभामंडलगः शशांकमित्यादिनोक्तः । वराहेणापि तस्मिन्काले सान्निध्यमस्यते नोपचर्यते राहुरित्युक्तस्तस्माद्राहोदर्शनं नास्त्येव । त्वन्मते दर्शनं चाक्षुषमेव विवक्षितम् । एवं च राहोर्दर्शनं राहुदर्शनमिति तत्पुरुषोऽनुपपन्नः । तस्माद्दर्शनशब्देनोपरागो लक्ष्यते । राहुदर्शनं राहूपरागस्तस्मिन् राहुदर्शने इति । अयमर्थः । राहुर्नाम पातस्तत्संबंधेन दर्शनमुपराग इति । न च राहुरेव लक्षणयोपरागपरस्तस्य दर्शनमिति पूर्वपक्षाभिमतार्थसिद्धिरिति वाच्यम् । लक्षणा तु अर्थातरासंभवे सति वक्तव्या । अत्यंतादर्शने राहोस्तथा चात्यंतदर्शने । प्रजापीडा विनिर्देश्या व्याधिदुर्भिक्षे कारकैरिति वि ष्णुधर्मोत्तरादिवाक्येषु पदांतरासन्निधानाद्राहुशब्देनोपरागो लक्ष्यते । इह च राहोः पाता - ख्यं ग्रहगतिरूपमर्थांतरमस्तीत्यतो राहुदर्शनग्रहपातयोः समानार्थकतास्तीत्येवं सिद्धमिति प्रागुक्तानां सर्ववचसां ग्रहणे स्नायादित्येकवाक्यार्थः फलितो भवति । केचित्तु दर्शनादर्शनविषयकयोस्तु विध्योस्तुल्यबलत्वात्सकृद्दृष्ट्वा स्नायादिति वदति तदसत् । जन्मसप्ताष्टरिः फां
1
१ तस्करैरित्यपि पाठः ।
Aho! Shrutgyanam