________________
मुहूर्तचिंतामणौ
केत्यादिना सामान्यतो निषिद्धस्य उपरक्तदर्शनस्य ॥ नेक्षेतोद्यंतमादित्यं नास्तं यांतं कदाचन। नोपरक्तं न वारिस्थं न मध्यं नभसो गतमिति मनूक्तोपरक्तदर्शनस्य पुनर्निषेधानुपपत्तेः । प्रागुतदिशा राहुदर्शनपदस्य राहूपरागलक्षकत्वेन तुल्यबलत्वाभावात् । तस्मादुपरक्तयोः सूर्याचंद्रमसोर्यस्य कस्यापि दर्शननिषेधसत्वात् ग्रहणे च स्नानदानाद्युक्तेस्तज्ज्ञानं च ज्योतिःशास्त्रैकदेशगणितग्रंथेभ्यो बुध्वा तस्मिन्काले दानादि विधेयमिति सिद्धांतः । अत एव मेघाद्याटतेऽप्युपरागे स्नानादिविधेयमेव । रात्रौ सूर्योपरागे दिवा चंद्रोपरागे च स्नानादिकं तु वचनान्न भवति । तदुक्तं निगमे । सूर्यग्रहो यदा रात्री दिवा चंद्रग्रहो यदि । तत्र स्नानं न कुर्वीत दद्यादानं न च क्वचिदिति । तादृशे ग्रहणे दुष्टेऽपि दोषो नास्तीत्यपि सूचितम् । जाबालिवचनं तु । संक्रांतेः पुण्यकालस्तु षोडशोभयतः कलाः । चंद्रसूर्योपरागे तु यावद्दर्शनगोचर इति । ग्रस्तस्यास्तमनपर्यंतं दर्शनगोचरत्वात्तावान् कालः पुण्यकालो भवतीति व्याचख्युः । तदुक्तं विश्वरूपनिबंधे । दिवाचंद्रग्रहो रात्रौ सूर्यपर्व न पुण्यदम् । संधिस्थं पुण्यवज्ज्ञेयं यावद्दर्शनगोचर इति । अन्ये तु । सूर्यस्यादर्शनं रात्रिर्दिनं तदर्शनात्मकम् । भुजपत्तादुपरि च स्थितोऽर्को दर्शनं स्मृतमिति वसिष्ठसिद्धांतवचनान्मेघाटतेऽनाटते चोपरागे गणितागतस्थितिघटिकाः पुण्यकाल इत्याहुः । यत्राकाशो भूम्या सह संलग्न इव दृश्यते स प्रदेशो भुजशब्दवाच्यः । अर्क इत्युपलक्षणं चंद्रादिग्रहनक्षत्राणाम् । विष्णुधर्मोत्तरे । अहोरात्रं न भोक्तव्यं चंद्रसूर्यग्रहो यदा । मुक्तिं दृष्ट्वा तु भोक्तव्यं स्नानं कृत्वा ततः परमिति । ग्रस्तास्ते गुरुः । ग्रस्तावेवास्तमानं तु रविंदू प्राप्नुतो यदि । तयोः परेधुरुदये स्नात्वाभ्यवहरेन्नरः । इत्यनयोर्वाक्ययोर्दर्शनोदयशब्दौ भुजहत्तोपरि स्थितत्वोपलक्षको । अन्यथा मेघाद्यावरणेन परदिवसेऽपि दर्शनाभावे उपवासः प्रसज्येत । तथा यत्र स्पर्शकाले ग्रहणं दृष्ट्वा स्नानं विहितं तत्रांतरे मेघावरणाद्रविचंद्रयोदर्शनाभावो दिवसद्वयं त्रयं वा स्यात्तत्राप्युपवासप्रसंगः स्यात् नच शिष्टास्तथाचरंति । तस्मादृशिदर्शनार्थ एव तस्माच्छास्त्रीयग्रहणज्ञाने सति मेघानावतेऽपि ग्रहणमदृष्ट्वैव चक्षुष्मतांधेन गंतुमशक्तेन च वृद्धादिना स्नानादिकं विधेयमित्यरिष्टजनकत्वाभावेऽपि ग्रहणदर्शननिषेधः किं पुनरयमिति तात्पर्यार्थः । अत एव भागवते कुरुक्षेत्रे स्नानाथै मिलितानां पांडवीयलोकानां मध्ये धृतराष्ट्रोऽपि परिगणित इति शिष्टाचारोऽप्येव मेवास्ति । एवं च सत्यरिष्टजनकत्वाभावेऽपि ग्रहणदर्शननिषेधः किं पुनररिष्टजनकत्वे । तस्माजन्मसप्तांकेति पद्यं निर्मूलत्वादुपेक्ष्यम् । किं च प्रत्यक्षोपलब्धवसिष्ठमत्स्यपुराणादिवाक्ये दर्शनपदाभावाच्च । अत एव मूले परे इति पदं प्रयुक्तं । शांतिस्तु दर्शनाभावेऽपि विधेया। यतोऽरिष्टयोगानां स्वरूपसतामेवारिष्टजनकत्वात् । अथ ग्रहणशांतिः । येषां तु विषमस्थाने राहुश्चंद्रमुपक्रमेत् । कर्मक्षयपरिक्लेशान प्राप्नुवंति च ते जनाः ॥ पितृपक्षविनाशाय सूर्यस्थाने भवेद्ग्रहः । होरायां गृह्यते यस्य नक्षत्रे वा निशाकरः ॥ प्राणसंदेहमानोति अ
Aho ! Shrutgyanam