________________
७.
मुहूर्तचिंतामणौ वेधो ग्रहालयादिति । इदमपि हिमाद्रिविध्यांतरविषयमेवेत्यन्ये । एतज्ज्ञानं दुर्घटमित्याह नारदः । अज्ञात्वा द्विविधं वेधं यो ग्रहज्ञो बलं वदेत् । स मृषावचनाभाषी हास्यं याति जने सदेति ॥ एवं गोचरदौष्टये यात्रादि न कार्यम् । तत्र शांतिमाह नारदः । ग्रहेषु विषमस्थेषु शांतिं यत्नात्समाचरेदिति । सौम्येक्षितोऽनिष्टफलः शुभदः पापवीक्षितः। निष्फलौ तौ ग्रही वेन शत्रुणा चावलोकितः ॥ नीचराशिगतः स्वस्य शत्रुक्षेत्रगतोऽपि वा । शुभाशुभफलं नैव दद्यादस्तं गतोऽपि वेति । एतादृशस्थले दुष्टत्वाभावादेव शांत्यभाव इति फलितोऽर्थः ॥ ५॥
अथ गोचरप्रस्तावात् ग्रहणीयनक्षत्रफलं ग्रहणीयराहुगोचरफलं ग्रहणाशुभप्रतीकारं दुष्टग्रहणदर्शननिषेधं च शार्दूलविक्रीडितेनाह
जन्म: निधनं ग्रहे जनिभतो घातः क्षतिः श्रीर्व्यथा चिंता सौख्यकलत्रदौस्थ्यमृतय स्युर्माननाशः सुखम् ॥ लामोपाय इति क्रमात्तदशुभध्वस्त्यै जपः स्वर्णगोदानं शांतिरथो ग्रहं त्वशुभदं नो वीक्ष्यमाहुः परे ॥६॥
जन्म:ति ॥ यस्य जन्मनक्षत्रे ग्रहे ग्रहणे सति निधनं मरणं स्यात् । वसिष्ठः । यस्यैव जन्मनक्षत्रे ग्रस्येते शशिभास्करौ । तस्य व्याधिभयं घोरं जन्मराशौ धनक्षय इति। विशेषो भार्गवीये । यस्य राज्यस्य नक्षत्रे स्वर्भानुरुपरज्यते । राज्यभंगं सुहृन्नाशं मरणं चात्र निर्दिशेदिति । राज्यनक्षत्रे राज्याभिषेकनक्षत्रे । अथ राशिफलम् । जनिभत इति जन्मराशेरारभ्य ग्रहणे सति क्रमेण घातादिकं फलं भवति । यथा जन्मराशौ ग्रहणे सति घातः शरीरपीडा । द्वितीयराशौ क्षतिद्रव्यनाशः तृतीयराशौ श्रीलक्ष्मीप्राप्तिः चतुर्थराशौ व्यथा शरीरपीडा पंचमराशौ चिंता पुत्रादीनाम् । षष्ठराशौ सौख्यम् । सप्तमराशौ कलत्रदौस्थ्यं स्त्रीकष्टम् । अष्टमराशौ मृतिर्मरणम् । नवमराशौ माननाशः । दशमराशौ सुखम् एकादशराशौ लाभः प्राप्तिः । द्वादशराशौ अपायो नाशः आत्मन इति केचिम् । द्रव्यस्येत्यपरे । इदं षण्मासपर्यंतमिति ज्ञेयम् । तदनंतरं ग्रहणांतरसंभावनयोक्तं दैवज्ञमनोहरे । घातं हानिमथ श्रियं जननभादस्ति च चिंता क्रमात्सौख्यं दारवियोजनं च कुरुते व्याधिं च मानक्षयम् । सिद्धिं लाभमपायमर्कशशिनोः षण्मासमध्ये ग्रह इति । अथाशुभसूचकग्रहणप्रतीकारमाह । तदशुभेति । तस्य ग्रहणाशुभस्य ध्वस्त्यै नाशाय जपः स्वर्णगोदानं जपो गायत्र्यादिमंत्राणां स्वर्ण सुवर्ण गौधेनुभूमिर्वा उपलक्षणत्वादन्येषां रूप्यादीनां यथाशक्त्या दानं कार्यमिति शेषः । तद्दौस्थ्यप्रणुदुक्तवज्जपविधिस्वर्णादिदानं भवेदित्युक्तेः । दानं ज्योतिर्निबंधे । सुवर्णनिर्मितं नागं सतिलं ताम्रभाजनम् । सदक्षिणं सवस्त्रं च श्रोत्रियाय निवेदयेत् । मंत्रश्च । तमोमय महाभीम सोमसूर्यविमर्दन । हेमनागप्रदानेन मम शांतिप्रदो भवेति । स्कांदे ।
Aho ! Shrutgyanam