________________
गोचरप्रकरणम् ।
७७ नास्ति । अथ देवगुरुरिति जन्मभात् शराब्धौ व्यत्ये नवांशे अद्रिगुणे शिवाही देवगुरुबृहस्पतिः क्रमाच्छुभो विद्रश्च ज्ञेयः । अथ शुक्र इति जन्मराशेः सकाशात् कुनागे द्विनगे अग्निरूपे वेदांबरे पंचनिधौ गजेषौ नंदेशयोः भानुरसे शिवानौ शुक्रः क्रमाच्छुभो विद्धश्च ज्ञेयः । अत्रेदं तात्पर्यम् । सूर्यो रसांत्ये इत्यादिप्राक्पठितस्थानेषु विद्यमानः स स ग्रहः शुभदः तदनंतरपठितस्थानेषु स्थितोऽशुभफलदाता । अर्थादेवानुक्तस्थानेषु न शुभो नाप्यशुभ इति ॥ २॥ ३ ॥ अथ वामवेधं शुक्लपक्षे चंद्रबलं चोपजात्युत्तरार्धेनाहदुष्टोऽपि खेटो विपरीतवेधाच्छुभो द्विकोणे शुभदः सितेऽब्जः ४
दुष्टोऽपीति ॥ दुष्टोऽपि वजन्मराशेः सकाशादनंतरपठितविरुद्वस्थानस्थितोऽपि विपरीतवेधाद्वामवेधाच्छुभः । यथा सूर्यों द्वादशेऽनिष्ट इत्युक्तं प्राक् स यदि शनिवर्जितैर्ग्रहः षष्ठस्थानस्थितैर्विद्धः सन् शुभफलदाता एवमुत्तरस्थानस्थितो यःकश्चिद्ग्रहः प्राक्पठितस्थानस्थितैर्ग्रहैविद्धः शुभ इति सर्वत्र व्याख्येयम् । अयमेव वामवेध इत्युच्यते । कश्यपः । अपविद्धो ग्रहः किंचिन्न ददाति शुभं फलम् । वामवेधविधानेन त्वशुभोऽपि शुभप्रदः । द्विकोणे इति । सितो शुक्लपक्षे अब्जश्चंद्रो द्वितीयनवपंचमेषु स्थितः शुभदः । अत्रापि क्रमेण षष्ठाष्टमचतुर्थस्थानस्थितैर्बुधवर्जितैर्घहैर्यदि न विद्धस्तदा शुभ इति ध्येयम् ॥ नारदः । शुक्लपक्षे शुभश्चंद्रो द्वितीयनवपंचमे । रिपुमृत्यंबुसंस्थैश्च न विहो गगनेचरैरिति ॥ ४ ॥
अथ द्विविधमतमुपजात्याहस्वजन्मराशेरिह वेधमाहुरन्ये ग्रहाधिष्ठितराशितः सः॥ हिमाद्रिविंध्यांतर एव वेधो न सर्वदेशेष्विति काश्यपोक्तिः॥६॥
स्वजन्मराशेरिति ॥ इह द्विविधवेधविधौ अन्ये नारदादयः स्वजन्मराशेः सकाशात् द्विविधमपि वेधमाहुः तथाचोभयत्रापि नारदेन जन्मत इत्युक्तम् । अन्ये कश्यपादयः स पुनर्द्विविधो ग्रहाधिष्ठितराशितः ग्रहो यस्मिन् राशौ तिष्ठति तत एव क्रमाद्वेधो वामवेधश्च भवति । यथा सूर्यो जन्मराशेः षष्ठस्थितः शुभः स सूर्यः स्वाक्रांतराशेर्दादशस्थानस्थितैः शनिवर्जितैहैन विद्धः तथा सूर्यो द्वादशस्थानस्थितोऽनिष्टः स सूर्यः स्वाक्रांतराशेः षष्ठस्थानस्थितैः शनिवर्जितैर्ग्रहैविद्धश्चेत्तदा शुभफलद इत्यर्थः । द्विविधवेधस्यैव विषयकल्पनोच्यते । हिमाद्रीति । हिमाचलविंध्याचलयोर्मध्यवर्तिन्येव देशे स वेधो ज्ञेयः न सर्वदेशेष्विति काश्यपोक्तिः काश्यपवचनम् । यदाह । ज्ञातव्यं जन्मराशेस्तु निखिलं यद्बलाबलम् । हिमाद्रिविंध्ययोर्मध्ये वेधजं तद्ग्रहालयम् । अपरे तु । सूर्यों रसांत्य इति क्रामिकवेधो जन्मराशेरेव ज्ञेयः। विपरीतवेधस्तु ग्रहाधिष्ठितराशित एवेति वदंति। गुरुः। जन्मतः क्रमवेधः स्याद्वामे
Aho ! Shrutgyanam