________________
. ७६
मुहूर्तचिंतामणौ गमनम् । मंदे चंद्रे गमः सौम्ये बुधे भौमे च वारुणे । रवौ शुक्रे गमो याम्ये गुरौ प्राग्गमनं स्मृतमिति ॥ इति श्रीदैवज्ञानंतसुतदैवज्ञरामविरचित प्रमिताक्षरायां संक्रांतिप्रकरणं समाप्तम् ॥ ३ ॥
॥ अथ गोचरप्रकरणम् ॥ अथ गोचरप्रकरणं व्याख्यायते ॥ तत्र जन्मराशेः सकाशात् ग्रहाणां चारवशेन यच्छुभाशुभफलं तद्गोचरफलमित्युच्यते । तत्र रविचंद्रयोर्गोचरफलमुपजातिकयाह
सूर्यो रसांत्ये खयुगेऽग्निनंदे शिवाक्षयोभमशनी तमश्च ॥ रसांकयोर्लाभशरे गुणांत्ये चंद्रोंऽबराब्धौ गुणनंदयोश्च ॥ १॥
सूर्य इति ॥ रसांत्य इत्यादौ समाहारद्वंद्वः । शिवाक्षयोरित्यादावितरेतरयोगः । अंबराब्धावित्यादावनित्यमागमशासनमिति नुमभावो ध्येयः । एवं सर्वत्र । स्वजन्मराशेरिति पंचमश्लोकस्थमत्राध्याहार्यम् । ततः सूर्यः क्रमात् रसांत्ये शुभो विद्धश्च स्यात् । सूर्यो जन्मराशेः सकाशात् षष्ठस्थाने शुभः यदि तत एव जन्मराशेादशस्थानस्था अन्ये ग्रहाः स्युस्तदा विद्धः सूर्यः शुभोऽप्यशुभफलदाता । अत्र शनेः सूर्यपुत्रत्वात्तवेधोऽनांगीकृतः । यतः पितुर्जनकस्य सुतसंबंधिनं वेधं नाहुः । सुतस्यापि पितृसंबंधिनं वेधं नाहुः । तथा खयुगे जन्मराशेदेशमे सूर्यः शुभश्चेच्चतुर्थस्थाने शनिवर्जिता अन्ये ग्रहाः स्युस्तदा विद्ध इत्येवं श्लोकत्रयं सम्यग्व्याख्येयम् । तथानिनंदे तृतीयनवमयोः शिवाक्षयोरेकादशपंचमयोः क्रमाच्छुभो विद्वश्च ज्ञेयः । भौमेति । भौमशनी तमोऽगुश्च त्रयोऽपि जन्मराशितः रसांकयोः लाभशरे गुणांत्ये क्रमाच्छुभा विद्धाश्चेत्यर्थः परंतु शनेः सूर्यवेधो नास्तीत्यक्तं प्राक् चंद्रोंऽबराब्धौ इत्यग्रे ॥१॥
अथ बुधगुरुशुक्राणां गोचरफलमुपजातिकेंद्रवजाभ्यामुपजातिकापूर्वार्धेन चाहलाभाष्टमे चायशरे रसांत्ये नगदये ज्ञो द्विशरेऽब्धिरामे ॥ रसांकयो गविधौ खनागे लाभव्यये देवगुरुः शराब्धौ ॥२॥ व्यत्ये नवांशेऽद्रिगुणे शिवाही शक्रः कुनागे द्विनगेऽग्निरूपे ॥ वेदांबरे पंचनिधौ गजेषौ नंदेशयोर्भानुरसे शिवाग्नौ ॥३॥ क्रमाच्छुभो विद्ध इति ग्रहः स्यापितुः सुतस्यात्र न वेधमाहुः ॥
चंद्र इति । लाभाष्टमे इति । व्यंत्य इति । क्रमादिति च ॥ जन्मभात् अंबराब्धौ गुणनंदयोः लाभाष्टमे आद्यशरे रसांत्ये नगद्वये चंद्रः क्रमाच्छुभो विद्धश्च ज्ञेयः । चंद्रस्य बुधवेधो नास्ति । अथ ज्ञ इति जन्मभात् द्विशरे अब्धिरा रसांकयोः नागविधौ खनागे लाभव्यये ज्ञो बुधः क्रमाच्छुभो विद्धश्च ज्ञेयः । अत्र चंद्रवेधो
Aho ! Shrutgyanam