________________
संक्रांतिप्रकरणम् ।
७५
1
नृपेक्षणमिति ॥ खेरिति ल्यब्लोपे पंचमी | रविवारमारभ्य एतानि कार्याणि । यथा रवेः अर्कस्य बले वारे वा नृपेक्षणं राजदर्शनं विधेयम् । एवं चंद्रादावपि व्याख्येयम् । चंद्रे सर्वकृतिः सर्वकृत्यानि भौमे संगरो युद्धम् बुधे शास्त्रमध्येयमध्याप्यं वा गुरौ विवाहः शुक्रे गमनम् शनौ दीक्षणं यागादिदीक्षाविधेयेत्यर्थः । अथेति । ताराबलतो विधुः शुभो ज्ञेयः । यदा चंद्रसंक्रमणं स्यात्तदा ताराबलं चेत्तदा सपादादिनद्वयं चंद्रोऽशुभोऽपि शुभः तारादौष्ट्ये शुभोऽप्यशुभः । एवं विधोर्बलाद्रविः संक्रमणेऽशुभोऽपि मासपर्यंतं शुभः । शुभस्तु सुतरां समीचीन एव । चंद्रदौष्टये शुभोऽप्यशुभ इत्यर्थः । परे भौमादयः संक्रांति - चिकीर्षवस्तद्वलतः सूर्यबलादशुभा अपि शुभा ज्ञेयाः । रविदौष्ट्ये तु शुभा अप्यशुभाः १९ अथाधिमा सक्षयमा सयोर्लक्षणमुपजात्याह
स्पष्टार्कसंक्रांतिविहीन उक्तो मासोऽधिमासः क्षयमासकस्तु ॥ द्विसंक्रमस्तत्र विभागयोस्तस्तिथेर्हि मासौ प्रथमात्यसंज्ञौ ॥ २० ॥ इति मुहूर्तचिंतामणी तृतीयं संक्रांतिप्रकरणं समाप्तम् ॥ ३ ॥
स्पष्टार्केति ॥ शुक्लप्रतिपदादिदर्शातश्रांद्रो मासः स चेत् स्पष्टसूर्य संक्रांत्या विहीनो रहितो भवेत्तदाधिमास उक्तः । चांद्रो मासो ह्यसंक्रांतो मलमासः प्रकीर्तित इति ब्रह्मसि - द्धांतोक्तेः । तुर्विशेषे । कदाचित्स चांद्रो मासो द्विसंक्रमः द्वौ संक्रमौ यस्मिन्नसौ द्विसंक्रमः स्पष्ट सूर्य संक्रांतिद्वययुतस्तदा क्षयमाससंज्ञक उक्तः । आद्यंतदर्शयोर्मध्ये भानोरेव तयोर्यदा । संक्रांतिद्वितयं चेत्स्यात्क्षयमासः स उच्यत इति वसिष्ठोक्तेः । तत्र क्षयमासे जातानां वर्धापने मृतानां श्राद्धे च तिथेर्विभागयोः पूर्वोत्तरदलयोः संबंधेन प्रथमात्यसंज्ञौ मासौ स्तः स्याताम् । तिथिपूर्वार्धजातानां मृतानां च पूर्वमासे वर्धापनं श्राद्धं च विधेयम् । तिथ्युत्तरार्धे जातानां मृतानां चोत्तरमासे वर्धापनं श्राद्धं च विधेयम् । तिथ्यर्धे प्रथमे पूर्वोऽपरस्मिन्नपरस्तथा । मासाविति बुधैश्चित्यौ क्षयमासस्य मध्यगाविति ॥ मासादिलक्षणभेदविचारस्तु ग्रंथगौरवभयान्न लिखितः ॥ २० ॥
1
अथ ग्रंथांतरसंग्रहः । योगिनीस्थितकाष्ठातः संक्रांतेरागमो मतः । चंद्रस्थदिशि दृष्टिः स्यागमनं वारदिक्स्मृतमिति क्वचित् । रवौ संक्रमणे पूर्वे मुखं जीवे तु उत्तरे । प्रत्यङ्मुखं शनौ सोमे शेषे दक्षिणतो मुखमिति । बवे पूर्वमुखं प्रोक्तं बालवे यमदिङ्मुखम् । कौलवे पश्चिममुखं तैतिले चोत्तरे मुखम् || गरे वायव्यदिग्वक्रं वणिज्याग्नेयदिङ्मुखम् । भद्रायामीशदिग्वक्रं शकुद नैर्ऋतौ मुखम् ॥ चतुष्पदि च पाताले नागे चोर्ध्वमुखं भवेत् । किंस्तुघ्ने सवैदिग्वक्रं संक्रांतिमुखलक्षणम् ॥ अथ दृष्टिः । चंद्रे गुरौ दृक्कथिता कृशानौ सूर्ये सिते नैऋतिकोणगा दृक् । धात्रीसुते दृक् पवने निरुक्ता बुधे शनौ रुद्रदिशीक्षणं भवेत् । अथ
Aho! Shrutgyanam