________________
संक्रांतिप्रकरणम् ।
मताः । ब्रह्मसिद्धांते । संक्रांतेः प्राक् परस्ताच्च सार्धाः षोडश नाडिकाः । त्रयस्त्रिंशत्संक्रमस्य पुण्याः सर्वस्य नाडिकाः ॥ अनेन संक्रांतेः पुण्यकालस्तु षोडशोभयतः कला इतिस्मृतिवाक्ये पूर्वतः परतश्च अष्टौ अष्टौ घटिका इत्येवं षोडशेति व्याख्यातं तदपाकृतं भवति । सूर्यसिद्धांतेऽपि । अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः । तदर्धनाड्यः संक्रांतेरर्वाक् पुण्यं तथापरे इति । अथ निशीथत इति । निशीथतोऽर्धरात्रात् अर्वाक् पूर्वं परत्र पश्चाच्च संक्रांतिकाले सति पूर्वापराहांतिमपूर्वभागयोः पूर्वापरयोरोः क्रमेणांतिमपूर्वभागयोरुभयत्र षोडश षोडश घटिकाः पुण्या इति पूर्वेण संबंध: । अयमर्थः । यद्यर्धरात्रात् प्राक् संक्रांतिस्तदा पूर्वदिनस्य उत्तरार्धं पुण्यम् । यद्यर्धरात्रादुपरि संक्रांतिस्तदोत्तरदिनस्य पूर्वार्धमेव पुण्यमित्यर्थः ॥ ५ ॥
अथार्धरात्रसंक्रमणे मकरकर्कटयोश्च विशेषमुपजातिकयाह
पूर्णे निशीथे यदि संक्रमः स्याद्दिनद्वयं पुण्यमथोदयास्तात् ॥ पूर्व परस्ताद्यदि याम्यसौम्यायने दिने पूर्णवरे तु पुण्ये ॥ ६ ॥
६९
1
पूर्णे इति ॥ पूर्णे निशीथे अर्धरात्रे यदि संक्रमः स्यात्तदा दिनद्वयं पूर्वदिनं परदिनं च पुण्यमुक्तम् । उक्तं च । यद्यर्धरात्र एव स्यात्संपूर्णे संक्रमो रवेः । तदा दिनद्वयं पुण्यं स्नानदानादिकर्मसु ॥ अथेति । अथानंतरमुदयास्तात्सूर्योदयात्सूर्यास्ताच्च पूर्वं परस्ताच्च यदि याम्यसौम्यायने कर्कमकरसंक्रांती भवतः तदा पूर्वपरे दिने पुण्ये स्याताम् । अयमर्थः सूर्योदयात्पूर्वं कर्कसंक्रमणं स्यात्तदा पूर्वदिन एव पुण्यकालो नोत्तरदिने । तथा यदि सूर्यास्तानंतरं मकरसंक्रांतिः स्यात्तदोत्तरदिन एव पुण्यकालो न पूर्वदिने । गार्ग्यः । यदास्तमनवेलायां मकरं याति भास्करः । प्रदोषे चार्धरात्रे वा स्नानं दानं परेऽहनि | अर्धरात्रे तदूर्ध्वं वा संक्रांतौ दक्षिणायने । पूर्वमेव दिनं ग्राह्यं यावन्नोदयते रविरिति । वा इवार्थे । प्रदोषलक्षणं स्कांदे । त्रिमुहूर्तः प्रदोषः स्याद्रवावस्तं गते सतीति ॥ ६ ॥
अथोदयास्तादिति वचनस्यापवादमिंद्रवज्जयाह
संध्या त्रिनाडीप्रमितार्कबिंबादर्धोदितास्तादध ऊर्ध्वमत्र ॥ चेद्याम्यसौम्ये अयने क्रमात्स्तः पुण्यौ तदानीं परपूर्वत्रौ ॥ ७ ॥ संध्यानीति ॥ अर्कमंडलादर्धोदितादर्धास्ताच्चाध ऊर्ध्वं क्रमात्रिभिर्नाडीभिर्मिता संध्या संध्याकालः स्यात् । अर्धोदितार्कबिंबात् पूर्वं त्रिनाडीमिता प्रातःसंध्या तथार्धास्ताद - बिबादुपरि त्रिनाडीमिता सायंसंध्येत्यर्थः । तत्प्रयोजनमाह । अत्रेति । अत्र प्रातः संध्यायां सायंसंध्यायां च क्रमाच्चेद्याम्यसौम्ये अयने दक्षिणोत्तरायणे स्तस्तदानीं परपूर्वी घस्त्र दिवस पुण्यौ । यदि प्रातः संध्यायां दक्षिणायनप्रवृत्तिस्तदा सूर्योदयानंतरं संपूर्ण महः
1
Aho! Shrutgyanam