________________
संक्रांतिप्रकरणम् ।
॥ अथ संक्रांतिप्रकरणम् ॥
अथ संक्रांतिप्रकरणं व्याख्यायते । तत्र प्राग्राशितोऽपरराशौ संक्रमणं नाम गमनं संक्रांतिस्तस्याः नक्षत्रविशेषवशेन वारवशेन च संज्ञां फलं च सार्धवसंततिलकयाहघोरार्क संक्रमणमुग्रवौ हि शूद्रान् ध्वांक्षी विशो लघुविधौ च चरक्षभौमे ॥ चौरान्महोदरयुता नृपतीन् ज्ञमैत्रे मंदाकिनी स्थिरगुरौ सुखयेच्च मंदा ॥ १॥ विप्रांश्च मिश्रभभृगौ तु पशूंच मिश्रा तीक्ष्णार्कजेंऽत्यजसुखा खलु राक्षसी च ॥ घोरार्केति । विप्रांश्चेति । अर्कसंक्रमणमर्कसंक्रांतिः उग्ररवौ उग्रनक्षत्रेषु रविवारे चेत्स्यात्तदा घोरेति संज्ञा । सा शूद्रान् सुखयेत् सुखमुत्पादयेत् । उग्ररवाविति उग्रैः सहितो रविः उग्ररविः तस्मिन्नुग्ररवाविति मध्यमपदलोपी तत्पुरुषः । ततः सप्तम्येकवच - नम् । अथवा समाहारद्वंद्वे अनित्यमागमशासनमिति नुमभावः । एवं लघुविधावित्यादिष्वपि समाधेयम् । अथ लघुनक्षत्रेषु विधौ सोमवारे सूर्यसंक्रांतिर्ध्वाक्षीनाम्नी विशो वैश्यान् सुखयेत् । चरक्षभौमे चरनक्षत्रे भौमवारे वा सूर्यसंक्रमणं चेन्महोदरयुता महोदरीसंज्ञका चौरान्सुखयेत् । ज्ञमैत्रे बुधवारे मैत्रसंज्ञनक्षत्रेषु वाऽर्कसंक्रांतिमैदाकिनीनाम्नी नृपतीन् राज्ञः सुखयेत् । स्थिरगुरौ स्थिरनक्षत्रेषु गुरुवारे चार्कसंक्रांतिर्मंदानाम्नी विप्रान् ब्राह्मणान् सुखयेत् ॥ १ ॥ मिश्रभभृगौ मिश्रनक्षत्रयोर्भूगुवारे वाऽर्कसंक्रांतिर्मिश्रानाम्नी पशून सुखयेत् । तीक्ष्णार्कजे तीक्ष्णसंज्ञक नक्षत्रेषु अर्कजे शनिवारेऽवार्कसंक्रांती राक्षसीनाम्नी अंत्यजसुखा अंत्यजान् चांडालान् सुखयतीत्यंत्यज सुखा स्यात् ॥
अथ दिनरात्रिविभागेन संक्रांत्यशुभफलमुत्तरायणदक्षिणायनसंज्ञां च सार्धवसंततिलक
याह
६७
त्र्यंशे दिनस्य नृपतीन् प्रथमे निर्हति
मध्ये द्विजानपि विशोऽपरके च शूद्रान् ॥ २ ॥ अस्तेऽनिशाप्रहरकेषु पिशाचकादीनक्तंचरानपि नटान्पशुपालकांश्च ॥ सूर्योदये सकललिंगिजनं च सौम्य - याम्यायनं मकरकर्कटयोर्निरुक्तम् ॥ २ ॥
त्र्यंशे इति । अस्त इति । अत्रार्कसंक्रमणमित्यनुवर्तते । दिनमाने त्रिभिर्भक्ते
Aho! Shrutgyanam