________________
84
नक्षत्रप्रकरणम् । तोरणं बलिनिरं च कुंडलं सिंहपुच्छगजदंतमंचकाः॥ व्यनि च त्रिचरणाभमर्दलौ वृत्तमंचयमलाभमर्दलाः ॥६०॥
अश्व्यादिरूपमिति। तोरणं बलिनिभमिति च ॥ अश्विन्यादिनक्षत्राणां रूपमाळतिरुच्यते । तत्राश्विन्यास्तुरगास्यं अश्वमुखसदृशं रूपम् । भरण्या योनिर्भगसदृशम् । कृत्तिकाया नापितारसदृशम् । रोहिण्या अनः शकटसदृशम् । मृगस्य एणास्य हरिणमुखसदृशम् । आर्द्राया मणिसदृशम् । पुनर्वसोर्गृहसदृशम् । पुष्यस्य एषत्को बाणस्तत्सदृशम् । आश्लेषायाश्चक्राकारम् । मघाया भवनं गृहसदृशम् । पूर्वाफाल्गुन्याः मंचः खटाकारम् । उत्तराफाल्गुन्याः शय्याकारम् । हस्तस्य हस्ताकारम् । चित्राया मौक्तिकाकारम् । खात्या विद्रुमं प्रवालसदृशम् ॥ ५९॥ विशाखायास्तोरणाकारम् । अनुराधाया बलिनिभं भक्तपुंजाकारम् । ज्येष्ठायाः कुंडलाकृति । मूलस्य सिंहपुच्छाकारम् । पूर्वाषाढाया गजदंतसदृशम् । उत्तराषाढाया मंचकसदृशम् । अभिजितस्त्रिकोणाकारम् । श्रवणस्य त्रिचरणसदृशम् । धनिष्ठाया मर्दलसदृशम् । शतताराया वृत्तं वर्तुलम् । पूर्वाभाद्रपदाया मंचकसदृशम् । उत्तराभाद्रपदाया यमलाभम् । रेवत्या मर्दलः मृदंगाकारं स्वरूपमित्यर्थः ६०
अथ जलाशयारामदेवप्रतिष्ठामुहूर्त सामान्यतो लग्नशुद्धिं देवताविशेषेण लग्नशुद्धिं नक्षत्रविशेषं चोपजातिकात्रयेणाऽऽह
जलाशयारामसुरप्रतिष्ठा सौम्यायने जीवशशांकशुक्रे ॥ दृश्ये मृदुक्षिप्रचरध्रुवे स्यात्पक्षे सिते स्वःतिथिक्षणे वा ॥ ६१ ॥ रिक्तारवर्जे दिवसेतिशस्ता शशांकपापैस्त्रिभवांगसंस्थैः॥ व्यंत्याष्टगैः सत्खचरैर्मृगेंद्रे सूर्यो घटे को युवतौ च विष्णुः ॥१२॥ शिवो न्युग्मे द्वितनौ च देव्यः क्षुद्राश्चरे सर्व इमे स्थिरः ॥ पुष्ये ग्रहा विघ्नपयक्षसर्पभूतादयोऽत्ये श्रवणे जिनश्च ॥ ६३ ॥ इति मुहूर्तचिंतामणौ द्वितीयं नक्षत्रप्रकरणं समाप्तम् ॥२॥
जलाशयेति । रिक्तारेति । शिवो नृयुग्मेति च ॥ जलाशयाः वापीकूपतडागादयः तेषां प्रतिष्ठा उत्सर्गः आराम उपवनं तस्याऽप्युत्सर्गः सुरा देवा विष्ण्वादयः तेषां प्रतिष्ठापनम् । सौम्यायने उत्तरायणे तथा जीवशशांकशुक्रे दृश्ये उदिते सति तथा मृदुध्रुवक्षिप्रचरनक्षत्रे तथा सिते शुक्ले पक्षे तथा स्वःतिथिक्षणे वा यस्य देवस्य प्रतिष्ठा कतुमिष्टा तस्य तत्स्वामिके नक्षत्रे तिथौ वा क्षणे मुहूर्ते वा ॥ ६१ ॥ तथा रिक्तारवर्जे दिवसे रिक्तातिथिभौमवारव्यतिरिक्ततिथिवारेषु एवंविधे दिने प्रतिष्ठा जलाशयारामदेवानां क्रमेण कर्माहत्वोपभोग्यत्वपूजायोग्यत्वरूपा अतिशस्ता स्यात् । तथा च गार्ग्यः । देवतारा
Aho ! Shrutgyanam