________________
नक्षत्रप्रकरणम् ।
६३
देवता पद्ममध्यस्थः पद्मवर्णकः । पद्माभयकरः श्रीमान्त्स्वर्णमूर्तिर्महाद्युतिः ॥ १२ ॥ सविता देवता तस्य सप्ताश्वरथवाहनः । द्विभुजो रक्तवर्णः स्यात्पद्मासनसमाश्रयः ॥ १३ ॥ त्वष्टा पद्मस्थितश्चित्रवर्णः स्यात्सचतुर्भुजः । पद्माक्षसूत्रवलयः पद्माभयकरः प्रभुः ॥ १४ ॥ वायुश्च देवता तत्र मृगारूढश्च मोचकः । अजाचर्मधरः श्रीमान्द्विभुजः परिकीर्तितः ॥ १५ ॥ इंद्राग्नी देवता तत्र गजाजावाहनावुभौ । चतुर्बाहू रक्तवर्णौ निजशस्त्रधरौ तथा ॥ १६॥ चापांकुशाभयैर्युक्तौ तथा समविराजितौ । पद्मासनो रक्तवर्णो मित्रस्तस्यानुदेवता । पद्माभयकरः श्रीमान्द्विभुजः परिकीर्तितः ॥ १७ ॥ शक्र ऐरावतारूढो दिव्यसिंहासनो विभुः । श्वेतवर्णो वज्ज्रधरोऽभयपाणिर्महाभुजः ॥ १८ ॥ निर्ऋतिर्देवता तत्र प्रेतारूढश्च मोचकः । खड्गखेटकधारी च द्विभुजः परिकीर्तितः ॥ १९ ॥ जलं तु देवता तस्य शुक्लवर्णा शुभाकृतिः । वरुणोऽस्य जलस्यापि स्वामी पूज्यतमो मतः ॥ २० ॥ मकरे वाहने विष्टो भवेत्पद्मकरो ध्रुवम् । विश्वे देवा देवताश्च श्वेतवर्णाश्चतुर्भुजाः । वरदाभयहस्ताश्च साक्षसूत्रांबुभाजनाः ॥ २१ ॥ विष्णुस्तु कृष्णवर्णः स्यात्पन्नगाशनवाहनः । शंखचक्रगदापाणिः पीतवासाश्चतुर्भुजः ॥ २२ ॥ वसवो देवतास्तत्र श्वेतवर्णाश्चतुर्भुजाः । वरदाभयहस्ताच साक्षमूत्रांबुजासनाः ॥ २३ ॥ वरुणो देवता तत्र मकरोपरि संस्थितः । यष्टिपाशधरः श्रीमान् गदापद्मधरस्तथा ॥ २४ ॥ अजैकचरणो रुद्रो देवताऽस्य प्रकीर्तिता । खङ्गचर्मधरो वाग्मी भुजद्वयसमावृतः ॥ २५ ॥ अहिर्बुध्याभिधो रुद्रो देवताऽस्य प्रकीर्तिता । श्वेतश्चतुष्करः पद्मवरदाभयपाशभृत् ॥ २६ ॥ पूषा तु देवता तत्र पद्मवर्णोऽबुजासनः । द्विभुजः पद्मपाणिस्यात्पयोगर्भप्रियो विभुः ॥ २७ ॥ इति नक्षत्रदेवताध्यानम् । अथोपयुक्तत्वान्नारदीयोक्ता काकमैथुनदर्शनशांतिः ॥ दिवा वा यदि वा रात्रौ यः पश्येत्काकमैथुनम् । स नरो मृत्युमाप्नोति ह्यथवा स्थाननाशनम् ॥ काकघातव्रतं यद्वा विदधीताऽथ वत्सरम् । पितॄन्देवान् द्विजान् भक्त्या प्रत्यहं वाऽभिवादयेत् ॥ जितेंद्रियो जितक्रोधः सत्यधर्मपरायणः । तद्दोषशमनार्थाय शांतिकर्म समारभेत् ॥ गृहस्येशानदिग्भागे होमस्थानं प्रकल्पयेत् । गृह्येोक्तविधिना तत्र प्रतिष्ठाप्य हुताशनम् ॥ प्रतिमंत्रं त्र्यंबकेन अथ मृत्युंजयेन च । व्याहृत्याभिहितिलैर्जयाद्यंतं प्रकल्पयेत् ॥ पूर्णाहुतिं च जुहुयात्कर्ता शुचिरलंकृतः । स्वर्णशृंगां रौप्यखुरां कृष्णां धेनुं पयस्विनीम् ॥ वस्त्रालंकारसंयुक्तां निष्कद्वादशसंयुताम् । तदर्धेन तदर्धेन दद्यादक्षिणया युताम् ॥ यथावित्तानुसारेण न्यूनाधिकत्वकल्पना । आचार्याय श्रोत्रियाय तां गां दद्यात्कुटुंबिने ॥ यस्मात्त्वं पृथिवी सर्वा धेनो वै कृष्णसन्निभे । सर्वमृत्युहरा नित्यमतः शांतिं प्रयच्छ मे ॥ ब्राह्मणेभ्यो विशिष्टेभ्यो यथाशक्त्या च दक्षिणाम् । ब्राह्मणान् भोजयेत्पश्चाच्छतिवाचनपूर्वकम् ॥ एवं यः कुरुते सम्यक्तस्माद्दोषात्प्रमुच्यते ॥ इति काकमैथुनदर्शनशांतिः ॥ तत्रैव कपोतादिशांतिः । आरोहयेगृहं यस्य कपोतो वा प्रवेशयेत् ।
Aho! Shrutgyanam