________________
मुहूर्तचिंतामणी
I
1
स्तस्मिन्काले यदि दर्शस्य चरमघटिका भवेत्तन्नक्षत्रं च यस्य पुरुषस्य जन्मनक्षत्रं जन्मकाले कालांतरे वा स्यात्तस्य पुंसो व्याधि मृत्युकृत्कुहूयोगो ज्ञेयः । तत्र कुहूजननफलं शांतिश्च स्यात् । कालांतरेऽपि कुहूयोगसंभवे शांतिर्विधेया । अतएव जगन्मोहने । यस्य जन्मर्क्षगचंद्रो विषनाड्यां कुहूर्भवेत् । अभिचारेण किं तस्य स्वयमेव मरिष्यतीति । अतो विषघटिकातः पूर्वकालो दर्शशब्दवाच्य इति । एवं प्रकारत्रयेण सिनीवालीकुहूदर्शानां भेद उपपादितस्तत्र यथासंप्रदायं व्यवस्थेत्यलमतिप्रसंगेन । अथ शांतिप्रकारः । सिनीवाल्यां प्रसूता स्याद्यस्य भार्या पशुस्तथा । गवाश्वमहिषी चैव शक्रस्यापि श्रियं हरेत् ॥ ये वसंति द्विजाश्चान्ये स्वप्रसादोपजीविनः । वर्जयेत्तानशेषांस्तु पशुपक्षिमृगादिकान् ॥ द्विजाः पक्षिणः । कुहूप्रसूतिरत्यर्थं सर्वदोषकरी मता । यस्य प्रसूतिरेतेषां तस्यायुर्धननाशिनी ॥ नारीं विना च शेषाणां परित्यागो विधीयते । परित्यागात्तत्र शांतिं कुर्यात्या विचक्षणः ॥ प्रतिमां कारयेच्छं भोश्रतुर्भुजसमन्विताम् । त्रिशूलखङ्गवरदाभयहस्तां यथाक्रमात् ॥ श्वेतवर्णां श्वेतपुष्पां श्वेतांवरवृषस्थिताम् । त्रैयंबकेन मंत्रेण पूजां कुर्याद्यथाविधि ॥ इंद्रश्चतुर्भुजो वज्रांकुशचापससायकः । रक्तवर्णो गजारूढो यत इंद्रेति मंत्रतः ॥ पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः । यष्टचक्षसूत्रकमंडल्वभयानां च धारिणः ॥ ये सत्या इति मंत्रेण पूजां कुर्यादनंतरम् । कलशस्थापन पूजादिपूर्ववत् । समिदाज्यचरोहमं तिलमाषैश्च सर्षपैः । अश्वत्थष्ठक्षपालाशसभिद्भिः खादिरैः शुभैः॥ अष्टोत्तरशतं मुख्यं प्रत्येकं जुहुयाद्बुधः । त्रैयंबकेन मंत्रेण तिलान्व्याहृतिभिर्हुनेत् ॥ शं करस्याभिषेकं च कुर्यादाज्यावलोकनम् । अन्यत्सर्वमभिषेकादिपूर्ववत् ॥ इति सिनीवालीकुहूशांतिः ॥ अथ दर्शशांतिः ॥ अथातो दर्शजातानां मातापित्रोर्दरिद्रता । तद्दोषपरिहाराय शांतिं वक्ष्यामि नारद । तत्र संकल्पं विधाय पुण्याहं वाचयित्वा सर्वतोभद्रमंडलं लिखित्वा तन्मध्ये कलशं संस्थाप्य। तन्मध्ये निक्षिपेद्द्रव्यं दधिक्षीरघृतादिकम् । न्यग्रोधोदुंबरोश्वत्थाः सता बिकास्तथा । एतेषां वृक्षमूलानां त्वगादीन पल्लवांस्तथा । पंचरत्नानि निक्षिप्य वस्त्रयुग्मेन वेष्टयेत् ॥ तत्र सर्वे समुद्रा इति । आपोहिष्ठा तृचेनेति कयानचित्र इत्यृचा । यत्किंचेदमृचा चैव समुद्रज्येष्ठा इत्यृचा || अभिमंत्र्योदकुंभं तमः पूर्वे निधापयेत् ॥ दर्शस्य देवता याश्च सोमसूर्यस्वरूपकाः । प्रतिमां स्वर्णजां नित्यं राजतीं ताम्रजां तथा ॥ आप्यायस्वेति मंत्रेण सवितापश्चात्तमेव च । उपचारैः समाराध्य ततो होमं समाचरेत् || समिधश्च चरुद्रव्यं क्रमेण जुहुयाद्गृही । हुनेत्सवितृमंत्रेण सोमोधेनुं च मंत्रतः ॥ अष्टोत्तरशतं वापि अष्टाविंशतिसंख्यया । अभिषेकादिपूर्ववत् । हिरण्यं रजतं चैव कृष्णा धेनु दक्षिणा । ब्राह्मणान् भोजयेत्तत्र कारयेत्स्वस्तिवाचनम् || इति दर्शशांतिः ॥ कृष्णपक्षे चतुर्दश्यां प्रसूतेः षड्विधं फलम् । चतुर्दशीं च षड्भागां कुर्यादादौ शुभं स्मृतम् ॥ द्वितीये पितरं हंति तृतीये मातरं तथा । चतुर्थे मातुलं हंति पंचमे वंशनाशनम् ॥ षष्ठे तु ध
५८
Aho! Shrutgyanam