________________
नक्षत्रप्रकरणम् ।
क्षण एव । तस्य च संक्रांतिसमयवदतिसूक्ष्मत्वेन दुर्ज्ञेयत्वात् । अमावास्यायाः सप्तमाष्टमप्रहरयोः कृत्स्नक्षयकालस्य भाष्यकारेण परिभाषितत्वात् सप्तमाष्टमप्रहरात्मकः कालः कुहूशब्दवाच्यस्तत्रोत्पन्नस्य कुहूशांतिः । पुनस्तस्यामेवामावास्यायां प्रथमप्रहरानंतरं सप्तमप्रहरादर्वाक् प्रहर पंचकात्मकः कालो दर्शशब्दवाच्य इति । तत्रोत्पन्नस्य दर्शशांतिर्विधेयेति । एवमेकस्यामेवामावास्यायां कालभेदेन त्रयं संभवति । यदा त्वमावास्यायां चंद्रदर्शनाभावस्तदा द्वयमेव दर्शत्वकुहूत्वरूपं संभवतीति अत्र केचिच्चतुर्दशीशेषे चंद्रदर्शने सति परदिने यामावास्या सा सिनीवाली इत्याहुस्तन्न चंद्रो यस्यामिति अन्यपदार्थस्य अमावास्यारूपस्यैव सामानाधिकरण्येन ग्रहणात् । किंच । सिनीशब्देन श्वेता चंद्रकला । वर्णवाचिनः सितशब्दाद्वर्णादनुदात्तात्तोपधात्तो न इति ङीपूनकारौ । सिनी तां वलते प्राप्नोतीति सिनीवालीति व्युत्पत्तिश्च चतुर्दश्युदितचंद्राश्रयायाममावास्यायां न युज्यते इति च तस्माद्दृष्टेदुः सिनीवाली त्यमावास्यैवाभिधीयत इत्येव ज्यायः । अथ गोलगणितविदोऽन्यथा समादधुः । तत्र स्याद्दृष्टदुः सिनीवालीत्यादौ उदयास्ताधिकारोक्तरीत्या दृक्कर्मद्वयसंस्कृतस्य दर्शनयोग्यत्वे सति प्राक् क्षितिजक्रांतिवृत्तसंबंधवत्त्वं ग्रहादेर्दर्शनशब्दवाच्यं मेघाद्यावरणे तु शास्त्रीयदर्शने दृशिर्वर्तते । आत्मा द्रष्टव्य इत्यादिवत् तथैव दर्शनायो - ग्यत्वे सति प्राक् क्षितिजसंबंधवत्त्वमदर्शनशब्दवाच्यमित्यदर्शनलक्षणम् । अतचंद्रदर्शनलक्षणवत्यमावास्या सिनीवालीनाम चंद्रादर्शनलक्षणवत्यमावास्या कुहूर्नाम लक्षणद्वयानाक्रांताऽमावास्या दर्शशब्दवाच्येति । अयमाशयः । यदामावास्या सूर्योदयात्प्राक् घटिकात्रय - वती तदा दृक्कर्मसंस्कारवशेन चंद्रस्य दृश्यत्वमागतं चेत्तदा सा संपूर्णाऽमावास्या सिनी - वालीनाम तादृश्याममायां द्वितीय सूर्योदयावधिकायामुत्पन्नस्यारिष्टशांतये सिनीवालीशांतिस्तत्फलं चादेश्यम् । अथ तिथिवृद्धौ वा तस्या अमावास्याया द्वितीयसूर्योदयानंतरमवशिष्टामावास्याघटीषूत्पन्नस्य कुहूशांतिरेव । चंद्रादर्शनलक्षणसत्त्वात् । यदि सैवामावास्या सूर्योदयात्प्राक् घटिकात्रयं चतुष्टयं वा प्रतिपत्संबद्धा तदा सिनीवाल्येव । अथ तादृश्यां न्यूनायामधिकायां वाऽमावास्यायां तु दृक्कर्मसंस्कारवशेन चंद्रस्यादृश्यत्वमागतं सामावास्या संपूर्णा कुर्नाम | चंद्रादर्शनलक्षणसच्चात् । तत्रापि कुद्दूशांतिरादेश्या । यदा तु सूर्योदयानंतरं कियतीषु द्वित्रिघटीषु अतिक्रांतासु अमावास्याप्रवृत्तिः पूर्वं चतुर्दश्येवास्थिता तस्यामुषसि दृक्कर्मवशतश्चंद्रो दृष्टो मा वादर्शि । तथाप्यमावास्यायां चंद्रादर्शनलक्षणानाक्रांतत्वात्सा संपूर्णामावास्या दर्शो नाम तत्र दर्शजननशांतिर्विधेयेति । एवममावास्याभेदेन सिनीवाली कुहूदर्शरूपपक्षत्रयं सावकाशमिति गोलज्ञानां मतम् । अथ प्रकारांतरेण सिनीवाली सर्व वादिसिद्धा सैव कुहूस्तु पारिभाषिकी । यदाह वसिष्ठः । नक्षत्रे यस्य दर्शातो विषनाड्या भवेद्यदि । कुहूयोग इति ख्यातो व्याधिमृत्युभयादिकृत् । अयमर्थः । तस्मिन्नक्षत्रे या विषनाड्य उक्ता
•
५७
Aho! Shrutgyanam