________________
मुहूर्तचिंतामणौ रकः ॥ नवग्रहमखं कुर्यात्तस्य दोषस्य शांतये । प्रथमं गोमुखाज्जन्म ततः शांति समाचरेत् ॥ गृहस्य पूर्वदिग्भागे गोमयेनानुलिप्य च । अलंकृते सुदेशे तु व्रीहिराशिं प्रकल्पयेत् ॥ पंचद्रोणमितं धान्यं तदर्धे तंडुलेन च । तदधै तु तिलैः कुर्यादन्योन्योपरि कल्पयेत् ॥ द्रव्यत्रितयराशौ तु अष्टपत्रं लिखेद्बुधः । पुण्याहं वाचयित्वा तु आचार्य वरयेत्पुरा ॥ राशौ प्रतिष्ठितं कुंभमव्रणं सुमनोहरम् । तीर्थोदकेन संभृत्य समृदौषधिपल्लवम् ॥ पंचगव्यं पंचरत्नं वस्त्रयुग्मेन वेष्टयेत् । तस्योपरि न्यसेत्पात्रं सूक्ष्मवस्त्रेण संयुतम् ॥ प्रतिमा स्थापयेत्पश्चादधिप्रत्यधिदेवताम् । चंद्रादित्याकृती पार्श्वे मध्ये वैधृतिमर्चयेत् ॥ एवमेव व्यतीपातशांती संक्रमणस्य च । भानोरुत्तरतो रुद्रमग्निं दक्षिणतो यजेत् ॥ निष्कमात्रेण चार्धन पादेनापि स्वशक्तितः । प्रतिमाः कारयेद्धीमांस्तत्तल्लक्षणलक्षिताः ॥ प्रतिमापूजनार्थाय वस्त्रयुग्मं निवेदयेत् । अधिदेवं भवेत्सूर्यश्चंद्रः प्रत्यधिदैवतम् ॥ तत्तद्व्याहृतिपूर्वेण तत्तन्मंत्रेण पूजयेत् । त्रियंबकेन मंत्रेण रुंद्रपूजां समाचरेत् ॥ उत्सूर्य इति मंत्रेण सूर्यपूजां समाचरेत् । आप्यायस्वेति मंत्रेण सोमपूजां समाचरेत् । तत्राष्टोत्तरसहस्रं अष्टोत्तरशतं वा अष्टाविंशतिसंख्याजपं सर्वसौरजपं च आनोभद्रा भद्राअग्नेरिति सूक्ते पुरुषसूक्तं त्रियंबकं एतान्मंत्रान् कुंभान् स्टष्ट्वा चतुर्दिक्षु जपेयुः । त्रियंबकेन मंत्रेण समिदाज्यचरून् हुनेत् । अष्टोत्तरसहस्रं अष्टोत्तरशतं अष्टाविंशतिर्वा । मृत्युंजयेन मंत्रेण तिलहोमं समाचरेत् । ततः समुद्रज्येष्ठा इति सूक्तेन आपोहिष्ठेति तृचेन च अक्षीभ्यामिति सूक्तेन पावमानीभिः त्रियंबकेन उत्सूर्यति आप्यायस्वेति वैदिकमंत्रैः सुरास्त्वामभिषिचंत्वित्यादिकैः पौराणमंत्रश्चाभिषेकं कुर्यात् । तत आज्यावेक्षणम् । अन्यदक्षिणादानादिकं पूर्ववत् । इत्युत्तरगायें व्यतीपातवैधृतिसंक्रांतिशांतिः ॥ अथ कुहूसिनीवालीदर्शशांतिः । तत्र यस्याः कस्याश्चिदमावास्यायाः अष्टौ भागान्कृत्वा प्रथमविभागे चंद्रदर्शनमस्ति नवेति विचार्यम् । यदा चंद्रदर्शनं तदा सिनीवाली यदा चंद्रादर्शनं तदा दर्शः । सकलचंद्रक्षयस्तदा कुहूरित्यर्थः । तदुक्तं छंदोगपरिशिष्टे । इंदुक्षयकालः श्राद्धकाल इति प्रस्तुत्येंदुक्षयकालपरिगणनमुक्तम् अष्टमेंऽशे चतुर्दश्याः क्षीणो भवति चंद्रमाः । अमावास्याष्टमे भागे पुनः किल भवेदणुः । अत्रेदुराये प्रहरे च तिष्ठेत् चतुर्थभागो न कलावशिष्टः । तदंत एव क्षयमेति कृत्स्न एवं हि ज्योतिश्चक्रविदो वदंतीति । एतत्कारिकाव्याख्यानं तद्भाष्यकारेण कृतम् । प्रहरनवकात्मकश्चंद्रक्षयकाल इति । तत्रामायाः सप्तमाष्टमप्रहरौ कृत्स्नः क्षयकालः । चतुर्दशीशेषयामदर्शादियामौ च चंद्रसूक्षमताकाल इति । तत्रायमत्र विषयविवेकः । यस्याममावास्यायां प्रथमप्रहरे शास्त्रात्प्रत्यक्षतो वा चंद्रदर्शनं स्यात्सा सिनीवाली सर्वदा सिद्धा । तत्रोत्पन्नस्य सिनीवालीशांतिविधेया। अथ तस्यामेवामावास्यायां यदा नष्टंदुकलात्वं स च कृत्स्नक्षयकालोऽमावास्यायां अंतिम
१ प्रधानप्रतिमां यजेत् ।
Aho ! Shrutgyanam