________________
मुहूर्तचिंतामणौ षयेहत्विगादिकान् । धेनुं पयस्विनी दद्यादाचार्याय सवत्सकाम् ॥ निर्ऋतिप्रतिमां कुंभं वस्त्रं हेमं च दापयेत् । ग्रहार्थवस्त्रप्रतिमास्तस्मै दद्यात्प्रयत्नतः ॥ श्रीरुद्रजापिने देयः कृष्णोऽनडान्प्रयत्नतः । तत्कुंभवस्त्रप्रतिमास्तस्मैदद्यात्प्रयत्नतः ॥ उक्तालाभे ततो दद्यादाचार्यब्रह्मऋत्विजाम् । तत्तन्मूल्यं प्रदातव्यं शक्त्या वाथ प्रदापयेत् ॥ दद्यादन्नं पायसादि ब्राह्मणान् भोजयेच्छतम् । अलाभे सति पंचाशदशकं तदलाभतः ॥ सर्वशांतेश्च पठनमाशिषां ग्रहणं तथा । गृही क्षमापयेद्विद्वान्निर्ऋतिः प्रीयतामिति ॥ इति शौनकीये मूलशांतिः ॥ अथाश्लेषाशांतिरप्येवमेव कार्या । तत्र विभवे पूर्वोक्तवत्पंचकुंभाः स्थाप्याः। असंभवे कुंभद्वयम् । एकत्र रुद्रस्थापनं द्वितीये आश्लेषाप्रतिमास्थापनम् । अभिमंत्रादिपूर्ववत् । तत्राश्लेषाप्रतिमा सर्पाकारा अधिदैवतबृहस्पतिप्रतिमा प्रत्यधिदैवतपितृप्रतिमा स्थाप्या पूज्या च । नमो अस्तु सर्पेभ्य इति पूजामंत्र इतीरितः सौ रक्तस्त्रिनेत्रश्च द्विभुजः पीतवस्त्रकः । फणकाधिधरस्तीक्ष्णो दिव्याभरणभूषितः । एवं ध्यात्वा ततोऽभ्यर्च्य होमकर्म समारभेत् । अभिषेके विशेषः । आश्लेषाऋक्षजातस्य मातापित्रोधनस्य च । भातृज्ञातिकुलस्थानां दोषं सर्व व्यपोहतु ॥ पितरः सर्वभूतानां रक्षतु पितरः सदा । सार्पनक्षत्रजातस्य वित्तं च ज्ञातिबांधवान् ॥ साधीश नमस्तुभ्यं नागानां च गणाधिप । गृहाणायं मया दत्तं सर्वारिष्टप्रशांतये ॥ इत्यय॑मंत्रः । मूलनक्षत्रवत्कुर्यात्सपैगंडे स्वनामतः । एतच्च मूलाश्लेषाशांतिकद्वयं विवाहे उपस्थिते श्वशुरस्य श्वश्र्वाश्च सत्वे मूलाश्लेषोत्पन्नयोरपि वधूवरयोस्तत्तदरिष्टनिवृत्त्यर्थं विधेयम् । उपलक्षणत्वाच्च ज्येष्ठाविशाखोत्पन्नाया वध्वा वरस्य ज्येष्ठबंधुकष्टशांतये च नारदः । मूलजा श्वशुरं हंति व्यालजा च तदंगनाम् । ऐंद्री पत्यग्रज हंति देवरं तु द्विदैवजा ॥ शांतिर्वा पुष्कला चेत्स्यात्तर्हि दोषो न कश्चनेति ॥ इत्याश्लेषाशांतिः ॥ अथ गंडांतशांतिः । गंडशांति प्रवक्ष्यामि सोममंत्रेण भक्तिमान् । कांस्यपात्रं प्रकुर्वीत पलैः षोडशभिनवम् ॥ अष्टाभिश्च चतुर्भिर्वा द्वाभ्यां वा शोभनं तथा। तन्मध्ये पायसं शंखे नवनीतेन पूरिते ॥ राजतं चंद्रमभ्यचैत्सितपुष्पसहस्त्रकैः। दैवज्ञः शुक्लवासास्तु शुक्लमाल्यांबरार्चितः ॥ सोमोऽहमिति संचिंत्य पूजां कुर्यादतंद्रितः । दद्यादै दक्षिणामिष्टां गंडदोषप्रशांतये ॥ शुक्लं वागीश्वरं चैव ताम्रपात्रसमन्वितम् । गंडदोपोपशांत्यर्थं दद्याद्वेदविदे शुचिः ॥ अत्रापि पूर्ववत्प्रतिमाकलशहोमाभिषेकादिकं कार्यम् । तिथिगंडे त्वनड्डाहं नाक्षत्रे धेनुरुच्यते ॥ कांचनं लग्नगंडे तु गंडदोषो विनश्यति । आद्यभागे पितुगडे त्रयाणामभिषेचनम् ॥ इतरत्र शिशोर्मातुरभिषेकं च कारयेत् । अन्यच्च । उत्तरातिष्यचित्रासु पूर्वाषाढोद्भवस्य च । कुर्याच्छांति प्रयत्नेन नक्षत्राकारजां बुधः ॥ चित्राद्यधै पुष्यमध्यद्विपादे पूर्वाषाढाधिष्ण्यपादे तृतीये । जातः पुत्रश्चोत्तराचे विघाती मातापित्रोद्घतुरप्यात्मनश्च ॥ द्विमासश्चोत्तरादोषः पुष्यश्चैव त्रिमासकः । पूर्वाषाढाष्टमे मासि
Aho ! Shrutgyanam