________________
मुहूर्तचिंतामणौ च शतच्छिद्रे घटे क्षिपेत् ॥ वंशपात्रोपरि न्यस्तं शतच्छिद्रे घटे स्थितम् । ततश्च निर्ऋति देवमर्चयेत्पश्चिमामुखम् ॥ मोषुणस्त्विति मंत्रेण शुक्लवस्त्राक्षतादिभिः । मूलरूपं विधातव्यं श्यामं कुणपवाहनम् ॥ खड्गखेटधरं चोग्रं द्विभुजं च काननम् । स्थापयेत्तं ग्रहांश्चैव वस्त्रगंधादिभिर्यजेत् ॥ चरुं च अपयेत्तत्र नैर्ऋतं दुष्कृतापहम् ॥ तत्र चत्वारः कुंभाश्चतुर्दिक्षु स्थाप्याः । एकः कुंभो रुद्रस्थापनार्थमन्यः स्थाप्यः । एकः शतच्छिद्रः कुंभः तस्मिन्कुंभे देवदारुशैलेयमित्याद्यौषधानि तथा सुवर्णमूल्यं अष्टादशयवपरिमितं निक्षिप्य तदुपरि वंशादिपात्रं निधाय तदुपरि वस्त्रं निधाय तत्र निर्ऋतिप्रतिमां इंद्रप्रतिमाजलप्रतिमासहितां स्थापयेत् । ततः षोडशोपचारैःपंचोपचारैर्वा पूजयेत् । उक्तं च शौनकेन । पुण्यभिमंत्रितैस्तोयैः प्रोक्षितायां क्षितौ ततः। तत्रोदकुंभं सुश्चक्ष्णं रक्तं व्रणविवर्जितम् ॥ अकृष्णमूलं निर्णिक्तं पूरयेन्निर्मलांभसा । आकलशेष्वित्यनया कलशस्थापनं शुभम् ॥ इमं म इति मंत्रेण पूरयेत्तीर्थवारिणा । कुंभं च वस्त्रगंधाद्यैस्तत्तन्मत्रैः प्रपूजयेत् ॥ याः फलिनीरित्यनया क्षिपेद्रनौषधादिकम् । वस्त्रावगुंठितं कुर्यात्पूरयेत्तीर्थवारिणा ॥ कूर्चहेमसमायुक्तं चूतपल्लवसंयुतम् । स्वस्तिकोपरि विन्यस्य क्षीरद्रुमसपल्लवैः ॥ द्रोणवीहीश्च निक्षिप्य ईशाने च निधापयेत् । पंचरत्नानि निक्षिप्य सर्वोषधिसमन्वितम् । अचितं गंधपुष्पाद्यैः श्रीरुद्रं तत्र संजपेत् । तथाप्रतिरथं सूक्तं शतरुद्रानुवाककम् ॥ रक्षामंत्रं तथा पुण्यं रक्षोघ्नं च स्टशन् जपेत् । त्रियंबकं जपेत्सम्यगष्टोत्तरसहस्रकम् ॥ एकवारं तथा जापी पावमानीः स्टशन् जपेत् । जपस्य पंच कुंभाश्च द्वयं वा तदलाभतः ॥ श्रीरुद्रस्यैककुंभं च सर्वसूक्तानि तत्र तु । तथान्यं पंचमं कुंभ पूर्वोक्तलक्षणैर्युतम् ॥ चतुःप्रस्त्रवणं कुर्यात्पंचवक्रं च तद्भवेत् । वस्त्रावगुंठितं कुर्यात्पूरयेत्तीर्थवारिणा ॥ पंचरत्नसमायुक्तमाम्रपल्लवसंयुतम् । एतस्मिन्नपि पंचरत्नसप्तमृत्तिकाशतमूलदेवदारुप्रभृत्यौषधहेममूलानि क्षिपेत् । तत्र शतमूलालाभे । विष्णुकांता सहदेवी तुलसी च शतावरी । मूलानीमानि गृह्णीयाच्छतालाभे विशेषतः ॥ तस्योपरि न्यसेत्पात्रं स्वर्णं वा रौप्यमृन्मयम् । शुद्धवस्त्रेण संछाद्य शतमूलानि निक्षिपेत् ॥ कुंभोपरि न्यसेद्विद्वान्मूलनक्षत्रदैवतम्। अधिप्रत्यधिदेवौ च दक्षिणोत्तरदेशयोः ॥ अधिदेवं यजेदादौ ज्येष्ठानक्षत्रदैवतम् । एवं प्रत्यधिदेवं च पूर्वाषाढङ्ख्दैवतम् ॥ स्वलिंगोक्तैश्च मंत्रैश्च प्रधानादीन्प्रपूजयेत् । पंचामृतेन संस्नाप्य आवाह्याथ समर्चयेत् ॥ उपचारैः षोडशभिर्यद्वा पंचोपचारकैः । रक्तचंदनगंधाद्यैः पुष्पैः कृष्णसितादिभिः ॥ मेषशृंगादिधूपैश्च घृतदीपैस्तथैव च । सुरापोलिकमांसाचैनवेद्यैर्भोजनादिभिः ॥ मत्स्यमांससुरादीनि ब्राह्मणानां विवर्जयेत् । सुरास्थाने प्रदातव्यं क्षीरं सैंधवमिश्रितम् ॥ पायसं लवणोपेतं मांसस्थाने प्रकल्पयेत । उक्तगंधाद्यलाभे तु यथालाभं समर्पयेत् ॥ पुष्पांतं तु समभ्यर्च्य होमं कुर्याद्यथोदितम् । निर्वापप्रोक्षणादीनि चरोः कुर्याद्यथाविधि ॥ हविर्गृहीत्वा विधिना नैर्ऋतेर्वक्रमाहुनेत् । अत्र वसिष्ठेन विशेषोऽभिहितः ।
Aho ! Shrutgyanam