________________
५०
मुहूर्तचिंतामणी
ददाति । तेन द्रव्याद्यभावे स्वर्गपातालस्थे मूले दोषाभावात् शांतेरनावश्यकत्वं ज्ञेयम् । यदा तु भूमावेव मूलं तदा शांतिरवश्यं विधेयेति शक्तेन । उक्तं च ज्योतिषार्णवे । भूमिष्ठं दोषबहुलं स्वल्पमन्यत्र संस्थितमिति ज्योतिर्निबंधे । मूलाश्विपित्र्यचरणे प्रथमे च नूनं पौष्णेंद्रयोश्व फणिनश्च तुरीयपादे । मातुः पितुः स्ववपुषोऽपि करोति नाशं जातो यदा निशि दिनेऽप्यथ संध्ययोर्वेति तत्रापि शांत्या शुभं भवतीति ज्ञेयम् || १६ ||
अथ मूलप्रसंगाद्दुष्टेषु गंडांतादिनिमित्तेषु जातस्यारिष्टं परिहारं च शार्दूलविक्रीडितेनाहising शूलपातपरिघव्याघातगंडावमे संक्रांतिव्यतिपात वैधृतिसिनीवालीकुहृदर्शके ॥ वज्रे कृष्णचतुर्दशीषु यमघंटे दग्धयोगे मृतौ
विष्टौ सोदर जनर्न पितृभे शस्ता शुभा शांतितः ॥ ५७ ॥ गंडांतेंद्र भेति ॥ एतेषु शिशोरुत्पत्तिर्नो शस्ता दुष्टफलदा । गंडातं तिथिनक्षत्रलग्रानां संधिः तल्लक्षणं ज्येष्ठापौष्णभेत्यादिना वक्ष्यति । इंद्रभं ज्येष्ठानक्षत्रं शूलयोगः पातो महापातः परिघव्याघातगंडयोगाः अवमस्तिथिक्षयः संक्रांतिः सूर्यसंक्रमणपुण्यकालः व्यतीपातवैधृती योगौ सिनीवाली दृष्टेंदुरमावास्या कुहूर्नष्ठेदुरमावस्या । सा दृष्टेंदुः सिनीवाली सा नष्टेंदुकला कुद्दूरित्यभिधानात् । दर्शचंद्रदर्शनरहितामावास्या एतद्वेदोऽग्रे प्रतिपादयिष्यते । वत्रे वज्रयोगे कृष्णपक्षचतुर्दश्याम् । यमघंटे मघाविशाखेत्युक्ते । दग्धयोगे सूर्येशपंचाग्निरसाष्टनंदा इत्युक्ते । मृतौ द्वीशात्तोयादित्युक्ते मृत्युयोगे विष्टौ भद्रायाम् । सोदरस्य भ्रातुर्भगिन्या वा नक्षत्रे पितृभे । माता च पिता च पितरौ तयोर्भे मातृ पितृभे च एषु निमित्तेषु सुतस्य सुताया वा जन्म चेत्स्यात्तदाऽनिष्टकृत्स्यादित्यर्थः । दुष्टनिमित्तस्योपलक्षणत्वात् त्रीतरजन्माप्यनिष्टम् सजातीयापत्यत्रयप्रसवानंतरं विजातीयापत्यप्रसवस्त्रीतरः । यथा पुत्रत्रयप्रसवानंतरं कन्याजन्म कन्यात्रयप्रसवानंतरं पुत्रजन्म सा जनि: शांतितः वसिष्ठादिप्रोक्तशांत्या स्वनुष्ठितया शुभा परिणामसुखदायिनीत्यर्थः ॥ १७ ॥
अथ शांतयो लिख्यंते । तत्र प्रथमं मूलशांतिरुच्यते । शौनक उवाच । अथातः संप्रवक्ष्यामि मूलजातहिताय च । मातापित्रोर्धनस्यापि कुले शांतिं हिताय च ॥ त्यागो वा मूलजातस्य स्यादष्टाब्दात्प्रदर्शनम् । अभुक्तमूलजातानां परित्यागो विधीयते ॥ अदर्शनाद्वापि पितुः स तु तिष्ठेत्समाष्टकम् । एवं च दुहितुर्ज्ञेयं मूलजातफलं बुधैः ॥ मुख्यकालं प्रवक्ष्यामि शांतिहोमस्य यत्नतः । जातस्य द्वादशाहे तु जन्म वा शुभे दिने ॥ समाष्टके वा मतिमान्कुर्याद्वै शांतिमादरात् । वसिष्ठः । सुसमे पुण्यदेशे तु मंडपं कारयेद्बुधः । कुंडं च तद्बहिः कुर्याद्ब्रहयज्ञोक्तमार्गतः ॥ पंचामृतं पंचगव्यं पंचत्वक् पल्लवानि च । उदुंबरवटाश्वत्थष्ठक्षात्रत्वक् सपल्लवाः ॥ शतौषधीमूलशंखनवरत्नानि मृत्तिकाः । कुष्ठं मांसी हरिद्रे द्वे
Aho! Shrutgyanam