________________
नक्षत्रप्रकरणम् । परीतं ज्ञेयम् । मूलस्य प्रथमपादे पितृनाश इत्युक्तं स आश्लेषाचतुर्थपादोत्पन्नस्य । द्वितीयपादे मातृनाशः स आश्लेषातृतीयचरणे । तृतीयचरणे धननाश उक्तः स आश्लेषाद्वितीयचरणे । चतुर्थचरणे शुभमुक्तं तदाश्लेषाप्रथमचरणे ज्ञेयम् । अत्र बहुविचारोऽस्ति ग्रंथभूयस्त्वभयान लिख्यते । अथ कैश्चिन्मूलवृक्षादिविचार उक्तो जयार्णवे । मूलस्तंभस्त्वचा शाखा पत्रं पुष्पं फलं शिखा । मुनयोऽष्टौ दिशो रुद्राः सूर्याः पंचाब्धयोऽग्नयः मूले तु मूलनाशः स्यात्स्तंभे वंशविनाशनम् । त्वचि मातुर्भवेत्क्लेशः शाखायां मातुलस्य च । पत्रे राज्य विजानीयात्पुष्पे मंत्रिपदं स्मृतम् । फले च विपुला लक्ष्मीः शिखायामल्पजीवितम् । अस्य मूलपुरुषस्यांगेषु घटीन्यासस्तत्रैव । मूलस्य घटिकान्यासो मूर्ध्नि पंच नृपो भवेत् । मुखे सप्त मृतिः पित्रोः स्कंधे वेदा महाबलः । बाह्वोरष्टौ बली पाण्योस्तिस्त्रो हत्यान्वितो भवेत्। हृदि खेटा भूपमंत्री नाभौ द्वौ ब्रह्मविद्भवेत् । गुह्ये दशातिकामी स्याज्जानुनोः षण्महामतिः। पादयोः षण्मृतिस्तस्येत्युक्तवान्कमलासन इति । अथ मूलोद्भूतकन्यायाः फलार्थं मूलांगविभागस्तत्रैव । चतस्रो नाडिकाः शीर्षे कुर्वति पशुनाशनम् । मुखे षट् धनहानिः स्यास्कंठे पंच धनागमः । कौटिल्यं हृदये पंच बाव्होर्वित्तागमस्ततः । वेदाः पाण्योर्दयाधर्म वेदा गुह्येऽतिकामिनी । ज्येष्ठमातुलनाशश्च जंघयोर्युगनाडिकाः । ज्येष्ठभ्रातृविनाशश्च चतस्रो जानुयुग्मके । पादयोर्दश नाड्यश्च तत्र वैधव्यमादिशेत् । इति मूलप्रसूताया मुनिभिः फलमीरितम् ॥ अथाश्लेषाजातयोः पुत्रकन्ययोरंगविभागेन फलं तत्रैव । मूर्ति पंचसु राज्याप्तिर्मुखे सप्त पितृक्षयः । नेत्रे द्वे जननीनाशो ग्रीवायां स्त्रीषु लंपटः ॥ स्कंधे वेदा गुरौ भक्तिहस्तेऽष्टौ च बली भवेत् । हृद्येकादशभिश्चात्मघाती संजायते नरः॥ स्त्री वा नाभौ भ्रमः षडिगुदे नव तपोधन । पादे पंच धनं हंति सापादेतत्फलं क्रमात् । अथाश्लेषावृक्षोऽपि तत्रैवोक्तः । फलं पुष्पं दलं शाखा त्वग्लता स्कंध एव च । सार्पवल्यां दशाक्षांकखरविश्वार्कसागराः । नाडिकास्तद्भवे बाले फलं ज्ञेयं यथाक्रमम् । श्रीः श्रीराजभयं हानिर्मातृपित्रात्मसंक्षय इति । अयं विभागो नक्षत्रस्य षष्टिघटिकात्मको ज्ञेयः । न्यूनातिरिक्ते अनुपातः ॥ ५५॥
अथ मूलनिवासं सफलमिंद्रवज्रयाहस्वर्गे शुचि प्रोष्ठपदेषमाघे भूमौ नभःकार्तिकचैत्रपौषे ॥ मूलं ह्यधस्तात्तु तपस्यमार्गवैशाखशुक्रेष्वशुभं च तत्र ॥५६॥
स्वर्ग इति ॥ शुचिराषाढः प्रोष्ठपदो भाद्रपदः इष आश्विनः माघः प्रसिद्धः एषु मासेषु मूलं मूलनक्षत्रं स्वर्गेऽस्ति । श्रावणकार्तिकचैत्रपौषेषु भूमौ तिष्ठति । तपस्यः फाल्गुनः शुक्रो ज्येष्ठः फाल्गुनमार्गशीर्षवैशाखज्येष्ठेषु अधः पाताले मूलं तिष्ठति । तत्फलं च यदा मूलनक्षत्रं यस्मिन्मासे यत्र भवति तत्रैव स्वर्गमृत्युपातालेष्वेव प्रोक्तं शुभाशुभफलं
Aho ! Shrutgyanam