________________
४८
मुहूर्तचिंतामण
ज्येष्ठांते एकघटिका मूलाद्यघटिकाद्वयमित्यर्थः । इदं वसिष्ठेन केचिन्मतमुक्तम् । यतस्तद्वाक्ये केचित् अपरे इति पदोक्तेः । तद्वाक्यं च । ज्येष्ठांत्यपादघटिकामितमेव केचिन्मूलं ह्यभुक्तमपरे पुनरामनंति । मूलाद्यपादघटिकाद्वितयेन सार्धमष्टौ समाः परिहरेदिह जन्मभाजमिति । बृहस्पतिस्तु एकघटीप्रमाणकं जगौ । ज्येष्ठांत्यार्धघटिका मूलाद्या चार्धघटिकेत्यर्थः । गुरुः । ज्येष्ठांत्यघटिकार्धं च मूलादौ घटिकार्धकम् । तयोरंतर्गता नाडी ह्यभुक्तं मूलमुच्यत इति ॥ ५३ ॥
1
अथान्य आचार्या उपजातिकयाहु:
अथोचुरन्ये प्रथमाष्टघट्यो मूलस्य शाक्रांतिमपंच नाड्यः ॥ जातं शिशुं तत्र परित्यजेद्वा मुखं पितास्याष्ट समा न पश्येत् ॥५४॥ अथोचुरन्य इति || आचार्याः प्रोचुः । मूलस्य प्रथमा अष्ट घटिकाः शाक्रस्य ज्येष्ठाया अंतिमाः पंच नाडिका एवमुभयोरंतराले त्रयोदश घटिका अभुक्तसंज्ञकाः प्रोचुः । उक्तं च । ज्येष्ठांत्या वटिका: पंच मूलाद्या वसुनाडिकाः । अभुक्तमिति तज्ज्ञेयं तत्र जातं शिशुं त्यजेदिति ॥ तत्फलमाह । तत्राभुक्तमूले जातं शिशुं बालं बालां वा पिता परित्यजेत् । त्यागाशक्तौ वा पितास्य बालस्याष्ट समा अष्टौ वर्षाणि मुखं न पश्येत् । नारदः । अभुक्तमूलजं पुत्रं पुत्रीमपि परित्यजेत् । अथवाब्दाष्टकं तातस्तन्मुखं न विलोकयेदिति । अत्र घटीनां न्यूनाधिक्यकथनं दोषस्याधिक्याल्पत्वकथनार्थं ज्ञेयम् ॥ १४ ॥
अथ मूलाश्लेषाजातस्य चरणवशेन फलमुपजातिकयाह
आधे पिता नाशमुपैति मूलपादे द्वितीये जननी तृतीये ॥ धनं चतुर्थोऽस्य शुभोsथ शांत्या सर्वत्र सत्स्यादहिभे विलोमम् ॥५५॥
आधे पितेति । मूलप्रथमचरणे जातस्य बालस्य पिता नाशं प्राप्नोति । द्वितीयचरणे जननी माता नाशं प्राप्नोति । सापत्नमातरि मातृशब्दो गौणः । तेन गौणमुख्ययोर्मुख्ये कार्यसंप्रत्यय इति जननीपदप्रयोगः । तृतीयचरणे धनं नश्यति । चतुर्थश्चरणो बालस्य शुभः । अत्र विशेषो नारदेनोक्तः । दिवा जातस्तु पितरं रात्रौ तु जननीं तथा । आत्मानं संध्ययोर्हति नास्ति गंडो निरामयः || वसिष्ठस्तु | मूलाद्यपादो यदि रात्रिभागे तदात्मनो नास्ति पितुर्विनाशम् । द्वितीयपादो दिनगो यदि स्यान्न मातुरल्पोऽपि तदास्ति दोषः ॥ अथानंतरं शांत्या मूलाश्लेषाशांत्या स्वनुष्ठितया सर्वत्र चरणचतुष्टयेऽपि सत् शुभमनिष्टफलनाशकं कल्याणं स्यात् । शास्त्रोक्तरीत्या खलु सूतकांते मासे तृतीयेऽप्यथ वत्सरांते इति कालत्रयं वसिष्ठोनोक्तम् । मातृगंडे तु विशेषः । मातृगंडे सुते जाते स्तकांते विचक्षणः । कुर्याच्छति तदृक्षे वा तद्दोषस्यापनुत्तये । शिष्टास्तु । सर्वत्रापि यन्नक्षत्रे जन्म तन्नक्षत्र एव शांतिरिति व्यवहरति । अथाहिभे विलोममिति आश्लेषायां मूलपादोक्तं फलं विलोमं वि
Aho! Shrutgyanam