________________
४०
मुहूर्तचिंतामणी
दीशाजपान्निर्ऋतिघातृशतार्यमक्षं सस्यस्य रोपणमिहार्किकुजौ विना सत् ॥ ३२ ॥
भाग्येति ॥ विधाता रोहिणी अंत्यं रेवती एषु नव भेषु कणानां चणकादीनां मर्दनं यष्टिघातादिना वितुषीकरणं सत्समीचीनं स्यात् । अथ विशाखादिषण्नक्षत्रैः आर्किकुजौ विना शनिभौमतोऽन्यवारेषु सस्यस्य धान्यस्य रोपणं सत् शुभम् ॥ ३२ ॥
अथ धान्यस्थितिं धान्यवृद्धिं च वसंततिलकयाहमिश्रोग्ररौद्रभुजगेंद्र विभिन्नभेषु ककजतौलिरहिते च तनौ शुभाहे ॥ धान्यस्थितिः शुभकरी गदिता ध्रुवेज्यदीगेंद्र दस्रचरभेषु च धान्यवृद्धिः ॥ ३३ ॥
मिश्रोग्रेति ॥ मिश्रोत्रादिविभिन्नेषु मिश्रादिदशनक्षत्रेभ्योऽन्येषु सप्तदशनक्षत्रेषु तथा कर्कमेषतुलारहिते लग्ने मकरस्थिरद्विस्वभावलग्नेषु शुभा हे चंद्रबुधगुरुशुक्रवारे धान्यानां स्थितिरेकत्र स्थले स्थापनं सा शुभकरी निगदिता अथ ध्रुवेज्यादित्रयोदशनक्षत्रेषु धान्यवृद्धिः । मह्यमेतावद्धान्यं देहि ततो मासद्वयानंतरं सपादं सार्धं वा दास्यामीत्येवंरूपा वृद्धिर्निगदिता ॥ ३३ ॥
अथ शांतिकपौष्टिकादिकं वसंततिलकयाहक्षिप्रधुवत्यचरमैत्र मघासु शस्तं
स्याच्छांतिकं च सह पौष्टिक मंगलाभ्याम् ॥ खेड विधौ सुखगते तनुगे गुरौ नो मौख्यादिदुष्टसमये शुभदं निमित्ते ॥ २४ ॥
क्षिप्रेति ॥ क्षिप्रादिनक्षत्रेषु पौष्टिक मंगलाभ्यां सह पौष्टिककर्मणा ग्रहशांत्या मंगलकर्मणा विनायकशांत्या सह शांतिकं दुष्टफलदमूलादिनक्षत्रोत्पन्न शांत्यादि शुभं स्यात् । लग्नात् खे दशमेऽर्के सति विधौ चंद्रे सुखगते चतुर्थे गुरौ लग्रस्थे सति तत् शांतिकं मौन्यादिदुष्टसमये गुरुशुक्रास्तादिदुष्टकाले नो शुभदम् । तथा निमित्ते केत्वाद्युत्पातदर्शने सति गुरुशुक्रास्तादावपि शुभदं स्यात् । उक्तं च । शांतिकर्माणि कुर्वीत रोगे नैमित्तिके तथा । गुरुभार्गवमौढ्येऽपि दोषस्तत्र न विद्यते ॥ ३४ ॥
अथ होमाहुतिशुद्धिमनुभाह
सूर्यभात्रित्रि चांद्रे सूर्यविच्छुक्रपंगवः ॥ चंद्रा रेज्यागुशिखिनो नेष्टा होमाहुतिः खले ॥ ३५ ॥
Aho! Shrutgyanam
C