________________
नक्षत्रप्रकरणम् ।
४१
सूर्यादिति ॥ सूर्याक्रांतनक्षत्रात्रित्रिमे नक्षत्रत्रयमध्ये चांद्रे चंद्रनक्षत्रे दिननक्षत्रे सति क्रमात्सूर्यादिमुखे होमाहुतिः पतति । यथा सूर्याक्रांतनक्षत्रात् नक्षत्रत्रयमध्ये होमारंभे सूर्यमुखे होमाहुतिपातः । ततो नक्षत्रत्रयेषु बुधस्य ततः शुक्रस्य ततः पंगोः शनेः ततश्चंद्रस्य तत आरस्य भौमस्य तत ईज्यस्य गुरोः ततः अगोः राहोः ततः शिखिनः केतोः एवं सति यद्दिने खले पापग्रहमुखे होमाहुतिः पतति सा नेष्टा न शुभदा । अर्थाच्छुभग्रहमुखे शुभा सूर्यनक्षत्राचंद्रनक्षत्रपर्यंतं गणना ॥ ३५ ॥
अथ यद्दिने होमश्चिकीर्षितस्तद्दिने वह्निनिवासवशेन शुभाशुभफल मिंद्रवज्जयाहसैका तिथिर्वारयुता कृताप्ता शेषे गुणेऽभ्रे भुवि वह्निवासः ॥ सौख्यrय होमे शशियुग्मशेषे प्राणार्थनाशौ दिवि भूतले च ।। ३६ ।।
1
सैकेति ॥ शुक्लादिगणनया वर्तमानतिथिगण्या एकयुता वर्तमानवारयुता चतुर्भक्ता यच्छेषं तच्चेद्रुणमितं त्रिमितं शून्यमितं च तदा भुवि भूमौ वन्हेर्वासो वसतिः । फलमाह । सौख्याय होमे । होमदिने भूमाव से सति सौख्यं भवति । अथ शशियुग्मशेषे एकमितशेषेऽग्निवासो दिवि स्वर्गे । तत्फलं कर्तुः प्राणनाशः । द्विमिते शेषेऽग्निवासो भूतले । तत्फलं कर्तुरर्थनाशः । उक्तं च । तिथिवारयुतिः सैका वेदभक्तावशेषकात् । निवासोऽग्नेव्यनि रूपे वित्तप्राणविनाशदः ॥ पाताले द्विकशेषेण धनसंचयनाशनः । गुणवेदावशेषेण भूमौ विपुलसौख्यदः ॥ संस्कारेषु विचारोऽस्य न कार्यो नापि वैष्णवे । नित्ये नैमित्तिके कार्य न चाब्दे मुनिभिः स्मृतः ॥ कैश्चित्खे सुप्तमपि होमे वर्ज्यमित्युक्तम् । तद्यथा । अर्कचंद्रादष्टमे ज्ञाच्चतुर्थे मंदः शुक्रादष्टमेऽगारक || राहुर्धर्मे जीवतः खेटसुते होमे नाशः पुत्रदाराधनानामिति ॥ ३६ ॥
अथ प्रतिवर्षोत्पन्ननवान्नभक्षणमनुष्टुभाह
नवान्नं स्याच्चरक्षिप्रमृदुभे सत्तनौ शुभम् ॥
विना नंदाविषघटी मधुपौषार्किभूमिजान् ॥ ३७ ॥
नवान्नमिति ॥ चरादिद्वादशभेषु सत्तनौ समीचीनलग्ने शुभग्रहैर्युते दृष्टे चेत्यर्थः । नंदातिथयः १, ६, ११ विषघटीर्विवाहप्रकरणोक्ताः मधुश्चैत्रः पौषः आर्किः शनिः भूमिजो भौमः एतान्विना वर्जयित्वा नवान्नभक्षणं शुभम् ॥ ३७ ॥
अथ नौकाघटनमनुष्टुभाह
याम्यत्रयविशाखंद्रसार्पपित्र्येशभिन्नभे ॥
भृग्वीज्यार्कदिने नौकाघटनं सत्तनौ शुभम् ॥ ३८ ॥
याम्यत्रयेति ॥ याम्यत्रयं भरणीकृत्तिका रोहिण्यः ईश आर्द्रा अन्यानि प्रसिद्धानि
६
Aho! Shrutgyanam