________________
नक्षत्रप्रकरणम् ।
३९
कृषिकृद्धाताय स्थाप्यानि । नन्वत्र पंचनक्षत्रत्यागे को हेतुरित्यत आह । तदंतरगते पंच क इति । तच्छब्देन हलोर्ध्वदंडशूलोर्ध्वदंडावुच्येते । अर्काक्रांतगतागतान्यनडुहां नाशाय भान्यग्रतो वृद्ध्यै भत्रितयं अयमंतरस्य पूर्वावधिः मध्ये ततः पदोपादानात् । तुशब्दस्तु आनंतर्यद्योतनार्थः । तु अनंतरं शूलत्रये धिष्ण्यानां नवकं कृषिकृद्वातायेति अंतरस्योत्तरावधिः । तदंतरगते मध्ये विद्यमानानां धिष्ण्यानां पंचकं पंचकं च श्रियै स्थाप्ये नक्षत्रदशकमिति यावत् । यच्चान्यत्रितयं हलदंडोर्ध्वभागे शुभफलदं लेख्यम् । एवं च सति ऋषिवाक्यैः सहास्यैकार्थतैव संपद्यते । अनेन महेश्वरादयोऽपि प्रत्युक्ताः ॥ २९ ॥ अथ शिरामोचनविरेचनादिमुहूर्त शार्दूलविक्रीडितेनाह
त्वाष्ट्रान्मित्रकभाइयेंऽयुपलघुश्रोत्रे शिरामोक्षणं भौमार्केज्यदिने विरेकवमनाथं स्याद्बुधार्की विना ॥ मित्रक्षिप्रचरधुवे रविशुभाहे लग्नवर्गे विदो जीवस्यापि तनौ गुरौ निगदिता धर्मक्रिया तद्वले ॥ २० ॥ त्वाष्ट्रादिति ॥ त्वाष्ट्राये चित्रास्वात्यौ मित्रभाहूये अनुराधाज्येष्ठे कमाये रोहिणीमृगौ श्रोत्रं श्रवणः चित्रादिष्वेकादशसु नक्षत्रेषु भौमार्कगुरुवारे शिरामोक्षणं रुधिरवाहिनी नाडिका शिरा तस्याः सूक्ष्मशस्त्रघातेन शिरातो रक्तमोक्षणं कुर्यात् । अथ बुधार्कीविना बुधशनिवारौ त्यक्त्वाऽन्यवारेषु पूर्वोक्तनक्षत्रेषु च विरेकवमनाद्यम् । औषधेन सुखप्रवृत्तिर्विरेकः वमनं वांतं एतदाद्यं कुर्यात् । मित्रक्षिप्रचरघुवेषु त्रयोदश नक्षत्रेषु रविवारे शुभग्रहवारे च विदो बुधस्य लग्नवर्गे जीवस्यापि लग्नवर्गे यस्मिन् कस्मिंश्चिलनेऽपि गुरुबुधयोः पडुर्गे सति तनौ लग्ने गुरौ च सति कर्तुर्गुरुबले च सति धर्मक्रिया कोटिहोमरुद्रानुष्ठानादिरूपा निगदिता कथिता ॥ ३० ॥ अथ धान्यच्छेदनं वसंततिलकयाह
तीक्ष्णाजपादकरवह्निवसुश्रुतदुस्वातीमघोत्तरजलांतकतक्षपुष्ये ॥ मंदाररिक्तरहिते दिवसेऽतिशस्ता धान्यच्छिदा निगदिता स्थिरभे विलग्ने ॥ ३१ ॥ तीक्ष्णाजपादेति ॥ एतेष्वेकोनविंशतिनक्षत्रेषु तथा भौमशनिरिक्तावर्जितदिने स्थिर सति धान्यादीनां यवादीनां छिदा छेदनं निगदिता कथिता ॥ ३१ ॥ अथ कणमर्दनं सस्यरोपणं च वसंततिलकयाह
भाग्यार्यमश्रुतिमघेंद्र विधातृमूलमैत्रत्यभेषु कथितं कणमर्दनं सत् ॥
Aho! Shrutgyanam