________________
मुहूर्तचिंतामणी
अथ बीजोप्तिमुहूर्त फणिचक्रं च शार्दूलविक्रीडितेनाहएतेषु श्रुतिवारुणादितिविशाखोडूनि भौमं विना बीजोतिर्गदिता शुभा त्वगुभतोऽष्टादुरामेंदवः ॥ रामेंद्रग्नियुगान्यसच्छुभकराण्युतौ हलेऽकज्झिताह्राद्रामाष्टनवाष्टभानि मुनिभिः प्रोक्तान्यसत्संति च ॥ २९ ॥ एतेष्विति ॥ पूर्वोक्तनक्षत्रेषु श्रुतिवारुणादितिविशाखोडूनि विना श्रवणादिवर्जितेषु मूलमघाचवमृदुक्षिप्रधनिष्ठास्वातीषु भौमं विना भौमवारव्यतिरिक्तवारेषु बोजोप्तिर्बीजवापनं शुभं ज्ञेयम् । नारदः । मृदुध्रुवाक्षिप्रभेषु पितृवायुवसूडुषु । समूलभेषु बीजोप्तिरत्युत्कृष्टफलप्रदा । रवौ रौद्राद्यपादस्थे भूमौ संजायते रजः । तस्माद्दिनत्रयं तत्र बीजवापं परित्यजेदिति राजमार्तंडे आर्द्राप्रथमदिनत्रयनिषेधः । अथ बीजोप्तौ फणिचक्रम् । अगुभतो न विद्यते गावो यस्येति अगुः राहुस्तस्य भं तदाक्रांतनक्षत्रं तस्मादादौ अष्टौ भानि असंति असमीचीनानि । ततस्त्रीणि शुभकराणि । तत एकमशुभम् । ततस्त्रीणि शुभक० तत एकम० ततस्त्रीणि शुभक० । तत एकम० । ततस्त्रीणि शुभक० । ततश्चत्वार्यशुभानि एवं बीजोत सप्तविंशतिनक्षत्राणां शुभाशुभत्वमुक्तम् । रत्नमालायाम् । मूर्ध्नि त्रीणि गले त्रयं च जठरे धिष्ण्यानि च द्वादशेत्यादि । लग्नशुद्धिमाह वसिष्ठः । भवरिपुसह जे पापैस्त्रिकोणकेंद्र स्थितैश्च शुभैः । कथिते शुभधिष्ण्येऽपि च शुभलग्ने बीजवापनं कार्यम् । अथ हलचक्रमुच्यते ॥ हले इति || हलचक्रे अर्कोज्झितात् भात् नक्षत्रात् क्रमेण त्रीणि असंति अशुभानि । ततोऽष्ट भानि संति शुभानि । ततो नव भानि असंति । ततोऽष्टौ भानि संति । यथा सूर्य आर्द्रायां भुक्तभं मृगः तत आरभ्य त्रीणि अशुभानि । ततः पुष्यतोऽष्टभानि शुभानि । ततो विशाखातो नव भान्यशुभानि । ततः शततारकातोऽष्टभानि शुभानि एवमष्टाविंशति भानि जातानि । तथा च वसिष्ठः । अर्कगतागतसंस्थे भत्रितयं नेष्टमुभयतस्त्विष्टम् । षोउशधिष्ण्यं नवकं शिष्टमनिष्टं च लांगले चक्रे ॥ कश्यपोऽपि । त्रिष्वष्टसु नवर्क्षेषु सप्तस्वर्कविभुक्तभात् । हानिर्बुद्धिः कर्तृनाशो लक्ष्मीप्राप्तिर्यथाक्रमादिति । एवं बहुमुनिसंवादे सति इनप्रोज्झितर्क्षात् त्रिवह्नित्री पुत्रीषुत्रिरामा ३,२,३,१,३, १, २, ३, ण्यशुभदशुभदानि क्रमाल्लांगलाख्य इति यदुक्तं गणेशदैवज्ञैर्मुहूर्ततच्चे तञ्चित्यम् । ऋषिवाक्यमूलाभावात् । ननु श्रीपतिवाक्यम् । अर्काक्रांतगतागतान्यनडुहां नाशाय भान्यग्रतो वृद्ध्यै भत्रितयं ततस्तु कृषिकृद्वाताय शूलत्रये । धिष्ण्यानां नवकं तदंतरगते स्यातां श्रियै पंचके यच्चान्यत्रितयं तदत्र गदितं चक्रे शुभे लांगले इति मूलं चेत् । न ह्ययं श्रीपतिवाक्ये शब्दार्थः किंतु मूलवा - क्याबोधेन स्वाज्ञानप्रकाशकः । वाक्यार्थस्तु । अर्काक्रांतगतानि त्रीणि भानि वृषनाशकराणि स्युः । ततस्त्रीणि वृद्ध्यै ततः पंच नक्षत्राण्यपास्य अग्रिमाणि नव भानि शूलत्रये त्रिकं त्रिक
1
३८
Aho! Shrutgyanam