________________
नक्षत्रप्रकरणम् । अथ द्रव्यप्रयोगं ऋणग्रहणमुहूर्त शार्दूलविक्रीडितेनाहस्वात्यादित्यमृदुद्विदैवगुरुभे कर्णत्रयाश्वे चरे लग्ने धर्मसुताष्टशुद्धिसहिते द्रव्यप्रयोगः शुभः॥ नारे ग्राह्यमृणं तु संक्रमदिने वृद्धौ करेऽर्केहि यत्तदंशेषु भवेदृणं न च बुधे देयं कदाचिद्धनम् ॥ २७ ॥ स्वात्यादित्येति ॥ स्वात्यायेकादश नक्षत्रेषु चरे मेषकर्कतुलामकराणामन्यतमे लग्ने धर्म नवमं सुतः पंचमं अष्टमं एतेषां शुद्धिः नवपंचमयोः पापग्रहराहित्यं अष्टमे तु शुभपापराहित्यमेवंरूपा शुद्धिस्तया सहिते लग्ने द्रव्यप्रयोगः ऋणदानं शुभं स्यात् । भीमपराक्रमे । मृदुपुष्याश्विनी चैव विशाखा श्रवणत्रयम् । पुनर्वसौ च शंसंति धनादिनिधिवर्तनम् ॥ वर्तनं ऋणादिरूपेण दानम् । मिश्रनक्षत्रत्वाद्विशाखायां निषेधे प्राप्ते ऋणदाने एव विधिः । हृते नष्टादौ निषिद्वैव। शुद्धेषु धर्मात्मजनैधनेषु चरे विलग्ने द्रविणप्रयोग इति । अथारे भौमवारे ऋणं न ग्राह्यम् | ऋणं भौमे न गृह्णीयान्न देयं बुधवासरे । ऋणच्छेदं कुजे कुर्यात्संचयं सोमनंदने ॥ अथ तु विशेषे संक्रमदिने संक्रांतिदिवसे वृद्धौ वृद्धियोगे करे हस्तनक्षत्रे अर्केऽह्नि रविवार इति यावत् । तत्रापि न ग्राह्यमित्येवं संबंधः । यद्यस्माद्धेतोः तहणं तद्वशेषु ऋणग्रहीतुः कुलेषु भवेत् तत्पुत्रपौत्रादिभिरपि परिहर्तुमशक्यमित्यर्थः । हस्तेऽर्कवारे संक्रांती यढणं स्यात्कुलेषु तत् । वृद्धियोगे तथा ज्ञेयमृणच्छेदं तु कारयेदिति ज्योतिःप्रकाशोक्तेः । बुधवारे ऋणं कदापि न देयम् ॥ २७ ॥ अथ हलप्रवाहमुहूर्त शार्दूलविक्रीडितेनाह
मूलद्वीशमघाचरध्रुवमृदुक्षिप्रैविनाकै शनि पापैीनबलैविधौ जललवे शुक्रे विधौ मांसले । लग्ने देवगुरौ हलप्रवहणं शस्तं न सिंहे घटे कर्काजैणधटे तनौ क्षयकरं रिक्तासु षष्ठयां तथा ॥ २८ ॥ मूलद्वीशेति ॥ एतैः मूलादिभिरेकोनविंशतिनक्षत्रैः विनार्कं शनि रविशनिवारी वर्जयित्वान्यवारेषु तत्र पापै नबलैर्निर्बलैः चंद्रे जलराशिनवांशके सति शके चंद्रे च मांसले पुष्टे सति उदिते इत्यर्थः । गुरौ लग्ने च सति तदा प्रथमं हलप्रवहणं शस्तं स्यात् । कश्यपः । गुरौ लग्नगते शुक्रे बलिन्याप्योदये विधौ । शस्ता कृषिक्रिया तत्र दुर्बलैः क्रूरखेचरैः ॥ अथ सिंहे घटे कुंभे कर्के अजे मेषे एणे मकरे धटे तुलायां तनौ लग्ने तथा रिकामु षष्ठयाम् तथाशब्दोऽनुक्तसमुच्चयार्थस्तेनाष्टम्यामपि न शस्तम् यस्मात्संक्षयकरम् ॥२८॥
Aho! Shrutgyanam