________________
नक्षत्रप्रकरणम् ।
३५
पद्मतनये शक्रोत्तरा रेवती वाजी हस्तविशाखमित्रसहिते भाना गुरौ भार्गवे । कुंभे कीटगृहे वृषे मृगपतौ चंद्रे शुभैर्वीक्षिते सन्नाहः शरखङ्गकुंतछुरिका धार्या नृपाणां हितेति ॥
दीपिकायाम् । मूलेंदुपूर्वात्रययाम्यपित्र्यशक्राश्विसार्पानलशूलिनश्च । शस्त्रादिसंधारणमेषु कुर्यात्तथौ विने च शुभे शुभाहे इति तदासन्नयुद्धादिविषयम् । अथ ध्रुवमृदुलघुनक्षत्रेषु हरौ श्रवणे अंतके भरण्यां आदित्ये पुनर्वसौ एषु शय्यासनादेः शय्या खट्टादिरूपा आसनं पीठमृगत्वगादि आदिशब्दात्पादुका तेषामुपभोग इष्टो हितः । दीपिकायाम् । मैत्रेदुपुष्ययमभादितिवाजिचित्राहस्तोत्तरात्रयहरीज्यविधातृभानि । एतेष्वतीव शयनासनपादुकानां संभोग कार्यमुदितं मुनिभिः शुभा इति ॥ २१ ॥ अथांधादिनक्षत्राणि शार्दूलविक्रीडितेनाह
अंधाक्षं वसुपुष्यधातृजलभ द्वीशार्यमांत्याभिधं मंदाक्षं रविविश्वमित्रजलपा श्लेषाश्विचांद्रं भवेत् ॥ मध्याक्षं शिवपित्रजैकचरणत्वा द्रविध्यंतकं स्वक्षं स्वात्यदितिश्रवोदहनभाहिर्बुन्यरक्षोभगम् ॥ २२ ॥
अंधाक्षमिति ॥ धाता रोहिणी विधिरभिजित् दहनभं कृत्तिका भगः पूर्वाफ - ल्गुनी । अन्यत् स्पष्टम् २२ ॥
अंधादिनक्षत्राणां फलमनुष्टुभाह
विनष्टार्थस्य लाभोंऽधे शीघ्रं मंदे प्रयत्नतः ॥
स्याहूरे श्रवणं मध्ये श्रुत्याप्ती न सुलोचने ॥ २३ ॥
विनष्टार्थस्येति || अंधनक्षत्रेषु विनष्टस्यापहृतस्यार्थस्य लाभः शीघ्रं भवति । मंदनक्षत्रेषु विनष्टार्थस्य प्रयत्नतो लाभो भवति । मध्ये मध्यनक्षत्रे विनष्टार्थस्य दूरं स्वनगरादतीव दूरदेशे श्रवणं त्वदीयद्रव्यममुकेन हृतं अमुकस्थले तिष्ठतीति लोकवार्ता भवति लब्धिस्तु नास्ति । सुलोचननक्षत्रेषु श्रुत्याप्ती न श्रवणमपि लब्धिरपि न भवतीत्यर्थः ॥ २३ ॥ अथ धनप्रयोगे निषिद्धनक्षत्राण्यनुष्टुभाह
तीक्ष्णमिश्रध्रुवोर्यद्रव्यं दत्तं निवेशितम् ॥
प्रयुक्तं च विनष्टं च विष्टयां पाते च नाप्यते ॥ २४ ॥
तीक्ष्णेति ॥ एतैस्तीक्ष्णादिनक्षत्रैर्यद्रव्यं सुवर्णादि दत्तं कालांतरं विना दत्तं न स्वसत्तापरित्यागेन निवेशितं स्वष्टसमीपे प्रत्ययार्थं स्थापितं प्रयुक्तं कालांतररीतिपुरःसरं कस्मै - चिद्दत्तं विनष्टं चौरादिना हृतं स्वयमेव वा क्वचित्त्यक्तं यद्द्रव्यं तद्द्रव्यं निश्चयेन कदापि
Aho! Shrutgyanam