________________
मुहूर्तचिंतामणौ विशाखा दहनः कृत्तिका एषु नक्षत्रेषु घट्टितं शस्त्रं शुभं स्यात् । अदितिर्वासवं त्वाष्ट्रमैत्रभैंदववाजिनः । सूचीकर्म तनुत्राणमेभिक्षैः प्रशस्यत इति ऋक्षोच्चयोक्तेः । अथ सुवर्णरूप्यादिपात्रे भोजनमुहूर्तमाह । वसिष्ठः । लघुमैत्रध्रुवचरभे सितेंदुबुधजीववारेषु । हेमरजतादिभाजनभोजनमारोग्यममृतयोगेषु ॥ १९ ॥ अथ मुद्रापातनमुहूर्त वस्त्रक्षालनमुहूर्तं च स्वग्धरयाहमुद्राणां पातनं सद्ध्वमृदुचरभक्षिप्रवींदुसौरे घस्रे पूर्णाजयाख्ये न च गुरुभृगुजास्ते विलग्ने शुभैः स्यात् ॥ वस्त्राणां क्षालनं सदसुहयदिनकृत्पंचकादित्यपुष्ये
नो रिक्तापर्वषष्ठीपितृदिनरविजज्ञेषु कार्य कदापि ॥२०॥ मुद्राणामिति ॥ ध्रुवमृदुचरक्षिप्रसंज्ञकैर्नक्षत्रैः कृत्वा राजमुद्रांकितसुवर्णरूप्यादिनिष्पादनं मुद्रापातनमित्युच्यते । टंकसालेति भाषया । वींदुसौरे घस्ने चंद्रशनैश्चरवर्जितवारे तथा पूर्णाजयाख्ये पूर्णाः पंचमीदशमीपूर्णिमाः जयास्तृतीयाष्टमीत्रयोदश्यः एतासु तिथिष्वित्यर्थः । सत् शुभं स्यात् । तथा गुरुशुक्रास्ते न शुभम् । विलग्ने शुभैः लग्ने शुभग्रहैः । सद्भिरित्यर्थः । उक्तं च । मृदुध्रुवक्षिप्रचरेषु भेषु योगे प्रशस्ते शनिचंद्रवज्ये । वारे तिथौ पूर्णजयाह्वये च मुद्राप्रतिष्ठा शुभदा नराणाम् ॥ गुर्वस्ते वा सितास्ते वा मुद्राणां घटनं क्वचित् । क्रूरग्रहांशलग्ने न कार्य भूतिमिच्छता ॥ अथ वसुर्धनिष्ठा हयोऽश्विनी दिनकृत् हस्तः तस्मात्पंचके हस्तचित्राखातीविशाखानुराधासु आदित्यं पुनर्वसुः पुष्यः एषु वस्त्राणां क्षालनं रजकाय धावनार्थ दानं सत् शुभं स्यात् । रिक्ता पर्वाणि पूर्वोक्तानि तिथिप्रकरणे षष्ठी पितृदिनं श्राद्धदिनं एतेषु रविजज्ञेषु शनिबुधवारेषु कदापि वस्त्रक्षालनं नो कार्यम्॥२०॥ अथ खड्गादिधारणं शय्याधुपभोगमुहूर्त च स्रग्धरयाहसंधार्याः कुंतवर्मेष्वसनशरकृपाणासिपुन्यो विरिक्ते शुक्रेज्यार्केहि मैत्रध्रुवलघुसहितादित्यशाऋद्विदैवे ॥ स्युर्लग्नेऽपि स्थिराख्ये शशिनि च शुभदृष्टे शुभैः केंद्रगैः स्या
ड्रोगः शय्यासनादेर्युवमृदुलघुहर्यंतकादित्य इष्टः ॥ २१ ॥ संधार्या इति ॥ विरिक्ते रिक्तावजिते शुक्रबृहस्पतिरविवारे तथा मैत्रध्रुवलघुसंज्ञकनक्षत्रसहितपुनर्वसुज्येष्ठाविशाखानक्षत्रेषु कुंतादयः संधार्याः । कुंतो भल्लः वर्म कवचम् इषवो बाणा अस्यंते अनेनेतीष्वसनं धनुः शरो. बाणः खगः असिपुत्री छुरिका सन्नाहोsपीति केचित् । तथा स्थिराख्ये वृषसिंहवृश्चिककुंभाख्ये लग्ने चंद्रे अपिशब्दात् लग्नेऽपि शुभग्रहदृष्टे शुभैः केंद्रगैः सद्भिः कुंतादिधारणं हितम् । कक्षोच्चये । पुष्ये चादितिचित्र
Aho! Shrutgyanam