SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ मुहूर्तचिंतामणी दग्धे वा स्फुटितें बरे नवतरे पंकादिलिप्ते न सFish सुराशयोः शुभमसत्सर्वाशके प्रांततः ॥ ११ ॥ वस्त्राणामिति ॥ वस्त्राणां नव भागाः कार्याः । कोणचतुष्टये अमरा देवा: स्थाप्याः । राक्षसा मध्यगतांशत्रयगता ज्ञेयाः । नराः दशासहिते पाशे च पुनर्मध्ययोरंशयोज्ञेयाः । तत्र चेद्रक्षोंऽशे नवतरे नूतने वस्त्रे दैवाद्दग्धे अग्निस्टष्टे स्फुटिते पाषाणाद्याघातादिभिर्निहते पंकेन कर्दमेन आदिशब्दाद्गोमयादिभिर्लिप्ते उपहते सति तद्वस्त्रं न सत् शुभफलजनकं न भवतीत्यर्थः । नृसुराशयोः एवं वस्त्रदाहादिके सति शुभं कल्याणं स्यात् । अथ सर्वांशके राक्षसमनुष्यदेवांशकेषु प्रांततः प्रांतभागे असदनिष्टफलजनकम् । इदं सर्वं शय्यासनपादुकास्वपि ज्ञेयम् । श्रीपतिः । कज्जलकर्दमगोमयलिप्ते वाससि दग्धवति स्फुटिते च। चित्यमिदं नवधा विहितेऽस्मिन्निष्टमनिष्टफलं च सुधीभिः ॥ अत्र राक्षसांशे ध्वजच्छत्रादिसदृशी छेदाकृतिः शुभफला ज्ञेया । देवमनुष्यांशेऽपि काकोलूकसदृशी छेदाकृतिरशुभफलदा | कश्यपः । शंखवस्त्रांबुजच्छत्रध्वजतोरणसन्निभा । श्रीवत्स - सर्वतोभद्रनंद्यावर्तगृहोपमा || वर्धमानस्वस्तिके भमृगकूर्मझषाकृतिः । छेदाकृतिर्दैत्यभागेऽप्यायुरर्थप्रदा नृणाम् । खरोष्ट्रोलूक काकाहि जंबूकश्वकोपमा ॥ त्रिकोणसूर्याकृतयो देवभागे - ऽप्यशोभनाः । निंदितं वसनं दद्याद्दिजेभ्यः स्वर्णसंयुतम् । आशिषो वाचनं कृत्वा त्वन्यहस्त्रं च धारयेदिति ॥ ११ ॥ अत्र वचिद्दृष्टदिनेsपि वस्त्रपरिधानमनुष्टुभाह विप्राज्ञया तथोद्वाहे राज्ञा प्रीत्यार्पितं च यत् ॥ निंद्येऽपि धिष्ण्ये वारादौ वस्त्रं धार्य जगुर्बुधाः ॥ १२ ॥ विप्राज्ञयेति ॥ धिष्ण्ये नक्षत्रे वारादौ वारतिथियोगादौ व्यतीपातभद्रादिदुष्टयोगेर्निद्येऽपि यद्वस्त्रं ब्राह्मणानुज्ञया तथोद्वाहे राज्ञा प्रीत्या संतोषेणार्पितं दत्तं तत् वस्त्रं धार्यमिति बुधा जगुः ॥ १२ ॥ अथ लतापादपारोपणराजदर्शनमद्यगोक्रयविक्रयमुहूर्तान् शार्दूलविक्रीडितेनाहराधामूलमृदुधुवर्क्षवरुणक्षिप्रैलतापादपा रोपोऽथो नुपदर्शनं ध्रुवमृदुक्षिप्रश्रवोवासवैः ॥ तीक्ष्णग्रां पभेषु मद्यमुदितं क्षिप्रत्यवहृींद्रभा दित्येंद्रisपवासवेषु हि गवां शस्तः क्रय विक्रयः ॥ १३ ॥ Tarafa || राधा विशाखा एतदादिचतुर्दशनक्षत्रैर्लतानां वल्डीनां पादपानां चारोपो वापः कार्यः । अथ राजदर्शनं ध्रुवमृदुक्षिप्रश्रवोवासवैस्त्रयोदशभैः कार्यम् । अथ Aho! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy