________________
नक्षत्रप्रकरणम् ।
एतानि नव भानि अधोमुखानि ज्ञेयानि । आर्द्रा पुष्यः श्रवणत्रयं रोहिण्युत्तरात्रयं च नव भान्यूर्ध्वमुखानि । मैत्राणि चित्रारेवत्यनुराधाः हस्तस्वाती पुनर्वसुज्येष्ठा अश्विनी एतानि नव भानि तिर्यङ्मुखानि । एषु अधोमुखोर्ध्वमुखतिर्यङ्मुखेषु भेषु ईदृशं कृत्यं अधोमुखोर्ध्वमुखतिर्यमुखकृत्यं सत् भवति । गरुडपुराणे । भरणीकृत्तिकाश्लेषामघामूलविशाखिकाः । तिस्त्रः पर्वास्तथा चैव अधोवक्राः प्रकीर्तिताः ॥ एषु वापीतडागादिकपभूमितणानि च । देवागारस्य खननं निधानखननं तथा ॥ गणितं ज्योतिषारंभं खनीबिलप्रवेशनम् । कुर्यादधोगतान्येव कार्याणि वृषभध्वज ॥ रोहिण्याद्री तथा पुष्यो धनिष्ठा चोत्तरात्रयम् । वारुणं श्रवणं चैव नव चोर्ध्वमुखास्तथा ॥ एषु राज्याभिषेकं च पट्टबंधं च कारयेत् । उध्वमुखान्युच्छ्रितानि सर्वाण्येषु च कारयेत् । रेवती चाश्विनी चित्रा स्वाती हस्तः पुनर्वसुः । अनुराधा मृगो ज्येष्ठा एताः पार्श्वमुखाः स्मृताः । गजोष्ट्राश्वबलीवर्ददमनं माहिषस्य च ॥ बीजानां वपनं कुर्याद्गमनागमनादिकम् । चक्रयंत्ररथादीनां नौकादीनां प्रवाहणम् ॥ पार्श्वेषु यानि कार्याणि कुर्यादेषु च तान्यपि । इदं च नक्षत्रविशेषविहितानां कर्मणामवश्यकर्तव्यत्वे मुहूर्तालब्धौ सत्यां कर्मणोऽधोमुखाद्याकारं ज्ञात्वा तत्तन्नक्षत्रेषु तानि कर्माणि कार्याणि । यानि च सर्वथा नोक्तानि बिलप्रवेशादीनि तान्येष्वेव नक्षत्रेषु कार्याणीत्येतदर्थमुक्तम् ॥ ९॥ ___ अथ प्रवालादिधारणमुहूर्त वसंततिलकयाह
पौष्णध्रुवाश्विकरपंचकवासवेज्यादित्ये प्रवालरदशंखसुवर्णवस्त्रम् ॥ धार्य विरिक्तशनिचंद्रकुजेऽह्नि रक्तं
भौमे ध्रुवादितियुगे सुभगा न दध्यात् ॥ १० ॥ पौष्णध्रुवेति ॥ रेवत्यादिनक्षत्रेषु तथा रिक्तातिथिशनिचंद्रभौमवर्जितेऽह्नि दिवसे प्रवालं विद्रुमं शंखः शंखवलयादि वस्त्रं श्वेतम् एतानि धार्याणि । रक्तं मंजिष्ठादिरंगेन रंजितं वस्त्रं भौमवारेऽपि धार्यम् । अथ सुभगा सभर्तृका ध्रुवादितियुगे रोहिण्युत्तरात्रयेषु अदितियुगे पुनर्वसौ पुष्ये च प्रवालादिकं न दध्यात् । क्वचिच्छततारायां स्नानमपि निषिद्धम् । उक्तं च । रोहिणीगुरुपुनर्वसूत्तरे या बिभर्ति नववस्त्रभूषणम् । सा न योषिदवलंबते पति स्नानमाचरति वारुणेऽपि या इति ॥ १० ॥ अथ नवधा विभक्तस्य वस्त्रस्य दग्धादिदोषे शुभाशुभफलं शार्दूलविक्रीडितेनाह
वस्त्राणां नवभागकेषु च चतुष्कोणेऽमरा राक्षसा . मध्यत्र्यंशगता नरास्तु सदशे पाशे च मध्यांशयोः॥
Aho ! Shrutgyanam