________________
'नक्षत्रप्रकरणम् ।
मद्यं मद्यारंभस्तीक्ष्णोग्रांबुपभेषु नव नक्षत्रेषु उदितः कथितः । अथ गवां क्रयो मूल्येन परस्माद्रहणं । विक्रयो मूल्यग्रहणपूर्वकं दानम् । क्षिप्रांत्यवह्नींद्रभादित्येंद्रांबुपवासवेषु हि नव नक्षत्रेषु शस्तः प्रशस्तः । अत्र भीमपराक्रमेण पंचदश भान्यभिहितानि । हस्तेऽनुराधात्रितये सपौष्णे मृगे च पूर्वाश्विविशाखभेषु । पुष्ये धनिष्टाद्वितयेऽदितीशे गवां क्रयं विक्रयमामनंति ॥ १३ ॥ ___ अथ पशूनां रक्षामुहूर्त स्थितिनिवेशनिषेधमुहूर्त चंद्रवंशयाहलग्ने शुभे चाष्टमशुद्धिसंयुते रक्षा पशूनां निजयोनिभे चरे ॥ रिक्ताष्टमीदर्शकुजश्रवोध्रुवत्वाष्ट्रेषु यानं स्थितिवेशनं न सत् ॥१४॥
लग्ने शुभे इति ॥ शुभे शुभस्वामिके लग्ने अष्टमशुद्धिसंयुते शुभपापाक्रांताष्टमभावरहिते सति पशूनां रक्षा रक्षणं प्रवेशादिकं च सत् । तथा स्वीययोनिनक्षत्रे चरभे च सत्। यथाऽश्वानां योनिभं अश्विनीशततारके तत्र चतुष्पदानां रक्षा शस्ता । तीक्ष्णे पशूनां दमनं चरे स्यात्पशुपोषणमिति वचनात् । अथ रिक्ता ४,९,१४ ऽष्टमी < दर्शोऽमावास्या कुजो भौमः श्रवः श्रवणः ध्रुवाण्युत्तरात्रयरोहिण्यः त्वाष्ट्रं चित्रा एषु पशूनां यानं गृहाबहिनिःसारणं स्थितौ गोष्ठादौ वेशनं न सत् शुभं न । व्यवहारोच्चये । पूर्वात्रये धनिष्ठेद्रपौणे सौम्यविशाखयोः । आश्लेषायां मघाश्विन्यां यात्रासिद्धिश्चतुष्पदामिति ॥ १४ ॥ अथौषधसूच्योर्मुहूर्त मंदाक्रांतयाह
भैषज्यं सल्लघुमृदुचरे मूलभे मंगलग्ने शुक्रेडीज्ये विदि च दिवसे चापि तेषां रवेश्च ॥ शुद्धे रिःफानमृतिगृहे सत्तिथौ नो जनेर्भे
सूचीकर्माऽप्यदितिवसुभत्वाष्ट्रमित्राश्विपुष्ये ॥ १५ ॥ भैष्यज्यं सदिति ॥ भैषज्यं औषधं प्रारब्धं भक्षितं च सत् लघुमृदुचरनक्षत्रे मूले च व्यंगलग्ने द्विस्वभावराशिघु मिथुनकन्याधनुर्मीनेषु लग्नगतेषु सत्सु शुक्रेट्टीज्यबुधेषु द्विस्वभावलग्नस्थेषु सत्सु च पुनस्तेषां शुक्रेडीज्यबुधानां रवेश्च दिवसे वारे सत्तिथौ रिक्तामारहिततिथौ भैषज्यं सत् शुभं स्यात् । दीपिकायाम् । द्वयंगोदये गुरुबुधेदुसितेषु तेषां वारे रवेश्च सुविधौ सुतिथौ सुयोगे । भेषग्रपन्नगविशाखशिवेतरेषु जन्मक्षविष्टिरहितेषु कृतः शुभायेति । अथ रिःफानमृतिगृहे लग्नात् द्वादशसप्तमाष्टमगृहेषु शुद्धेषु शुभपापग्रहरहितेषु सत्सु औषधं तु वर्षफलप्रश्नादिना आयुर्निश्चये च सत् । द्यूनशत्रुनिधनव्ययशुद्धौ सद्गृहेषु नितरां बलवत्सु । आयुषश्च हितकारिणि योगे कीर्तिता नियतमौषधसेवेति श्रीपतिभट्टोक्तेः । 'अथ जनेभै जन्मनक्षत्रे नो भैषज्यं सत् । जन्मनक्षत्रगश्चंद्रः प्रशस्तः सर्वकर्मसु । सौरभेषज
Aho ! Shrutgyanam