________________
शुभाशुभप्रकरणम् । दीक्षामजिविवाह मुंडनमपूर्व देवतीर्थेक्षणं संन्यासाग्निपरिग्रहौ नृपतिसंदर्शाभिषेकौ गमम् ॥ चातुर्मास्य समावृती श्रवणयोर्वेधं परीक्षां त्यजेवृद्धत्वास्त शिशुत्व ईज्यसितयोयूनाधिमासे तथा ॥ ४७ ॥ दीक्षामीति ॥ दीक्षा मंत्रग्रहणादिका मौंजीविवाह प्रसिद्धौ मुंडनं चौलम् अपूर्वं देवेक्षणं तीर्थक्षणं च संन्यासः प्रसिद्धः अग्निपरिग्रहोऽग्निहोत्रम् अपूर्वं राजदर्शनं राजाभिषेकश्च गमं गमनमपूर्वमेव चातुर्मास्यं चातुर्मास्ययागः समावृतिमजीविसर्गः श्रवणयोर्वेधः कर्णवेध: परीक्षा तप्तमाषादिरूपा दिव्यमिति यावत् । एतानि कर्माणि बुधो न कुर्यात् । कदा ईज्यसितयोर्बृहस्पतिशुक्रयोर्वृद्धत्वे अस्ते च शिशुत्वे बाल्ये च तथा न्यूनाधिकमासे क्षयमासे अधिकमासे च न कुर्यात् । अत्र मूलवचनानि । शातातपः । अस्तं गते गुरौ शुक्रे बाले वृद्धे मलिम्लुचे । उद्यापनमुपारंभं व्रतानां नैव कारयेत् । ऋक्षोञ्चयः । वापीकूपतडागयागगमनं क्षौरं प्रतिष्ठा व्रतं विद्यामंदिर कर्णवेधन महादानं वनं सेवनम् | तीर्थस्नान विवाहदेवभवनं मंत्रादिदेवेक्षणं दूरेणैव जिजीविषुः परिहरेदस्तं गते भार्गवे । उपनयनं गोदानं परिनयनगृहप्रवेशगमनानि । अस्तमितेषु न कुर्यात्सुरगुरुभृगुपुत्र चंद्रेषु || अस्तमयादिफलमाह बादरायणः । गुरोरस्ते पतिं हन्याच्छुक्रास्ते चैव कन्यकाम् । चंद्रे नष्टे उभौ हन्यात्तस्मादस्तं विवर्जयेत् || बालभावे स्त्रियं हन्याद्वृद्धभावे नरं तथा । तस्माद्वाल्ये च वाच विवाहं नैव कारयेत् ॥ अथाधिमासे वर्ज्यानि गृह्यपरिशिष्टे । सोमयागादिकर्माणि नित्यान्यपि मलिम्लुचे । तथैवाग्रयणाधानचातुर्मास्यादिकान्यपि ॥ महालयाष्टका श्राद्धोपाकर्माद्यपि कर्मव्यत् । स्पष्टमासविशेषाख्यविहितं वर्जयेन्मले || गर्गबृहस्पती । अग्न्याधानं प्रतिष्ठां च यज्ञदानव्रतानि च । वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः । मांगल्यमभिषेकं चमलमासे विवर्जयेत् । मरीचिः । गृहप्रवेशगोदानस्थानाश्रममहोत्सवम् । न कुर्यान्मलमासे तु संसर्पेऽहस्पतौ तथा ॥ वसिष्ठः । वापीकूपतडागादिप्रतिष्ठा यज्ञकर्म च । न कुर्यान्मलमासे तु संसर्पेऽहस्पतौ तथा ॥ यदा क्षयमासो भवति तदा क्षयमासस्य पूर्वोत्तरावधिमासौ भवतः । तत्र पूर्वः संसर्पो द्वितीयोऽहस्पतिः । एतानि गुरुशुक्रयोरस्तादावपि वर्ज्यानीत्याहुः । गार्ग्यः । बाले वा यदि वा वृद्धे शुक्रे वास्तंगते गुरौ । मलमास इवैतानि वर्जयेद्देवदर्शनम् ॥ अत्र देवदर्शनमपूर्वं विवक्षितम् । तदाह गर्गः । अपूर्वदेवतां दृष्ट्वा शुचः स्युर्नष्टभार्गवे । मलमासेऽप्यनावृत्ततीर्थयात्रां विवर्जयेत् ॥ अनावृत्ता अपूर्वतीर्थयात्रा । अत्र नियतकालानि सीमंतनामकरणादीनि गुर्वादेरस्तादिसत्वेऽपि स्वस्वकाल एव कार्याणि । गुरुः । मासप्रयुकार्येषु मूढत्वे गुरुशुक्रयोः । न दोषकृन्मले मासे गुर्वादित्यादिकं तथा ॥ अन्यत्रापि । सीमंतजातकादीनि प्राशनांतानि यानि वै । न दोषो मलमासस्य मौढ्यस्य गुरुशुक्रयोरिति ॥
1
Aho! Shrutgyanam
२१