________________
मुहूचिंतामणौ नाभौ च्युतिः पुच्छे ध्रुवो जयः ॥ अथ विष्टिपरिहारमाह । तथेति ॥ .तिथ्यपरार्धजा ति - थ्यत्तरार्धभता विष्टिर्वासरे दिवसे यदि स्यात्तदा शुभकरी। तथा तेनैव प्रकारेण तिथिपूर्वार्धोत्था रात्रौ शुभकरी । लल्लः । दिवापरार्धजा विष्टिः पूर्वार्धात्था यदा निशि । तदा विष्टिः शुभायेति कमलासनभाषितम् ॥ नारदस्तु निषेधमाह । करणानि बवादीनि शुभसंज्ञानि षट् क्रमात् । क्रमायाताक्रमायाता विष्टिनष्टा तु मंगल इति ॥ ४४ ॥ अथ भद्रानिवासं तत्फलं चानुष्टुभाहकुंभकर्कछये मत्यै स्वर्गे ऽब्जेज्जात्रयेलिगे।
स्त्रीधनुर्जूकनकेऽधो भद्रा तत्रैव तत्फलम् ॥ ४५ ॥ कुंभकर्केति ॥ अब्जे चंद्रे कुंभद्वये कुंभमीनस्थे कर्कद्वये कर्कसिंहराशिस्थिते मनुप्यलोके भद्रा तिष्ठति । अथ मेषात्रये मेषषमिथुनस्थिते अलिगे वृश्चिकस्थे चंद्रे च स्वर्गलोके भद्रा तिष्ठति । कन्यातुलाधनुर्मकरराशिषु चंद्रे अधः पाताललोके भद्रा तिष्ठति । तत्रैव मर्त्यस्वर्गपातालेषु फलं स्वोक्तं शुभाशुभं भद्रा ददातीत्यपवादद्वारा प्रयोजनमुक्तं भवति । उक्तं च । मेषोक्षकोZमिथुने घटसिंहमीनकर्केषु चापमृगतौलिसुतासु चंद्रे । स्वर्मय॑नागनगरीः क्रमशः प्रयाति विष्टिः फलान्यपि ददाति हि तत्र देशे। उक्तं च भूपालवल्लभे । कर्ककुंभवये भूस्था कौर्येऽजत्रितये द्युगा । कन्याचापद्वये चंद्रे भद्रा पातालवासिनी ॥ ४५ ॥ अथ कालशुद्धौ निषेध्यवस्तूनि शार्दूलविक्रीडितेनाहवाप्यारामतडागकूपभवनारंभप्रतिष्ठे व्रतारंशोत्सर्गवधूप्रवेशनमहादानानि सोमाष्टके । गोदानाग्रयणप्रपाप्रथमकोपाकर्मवेदव्रतं नीलोद्वाहमथातिपन्नशिशुसंस्कारान्सुरस्थापनम् ॥ ४६॥ वाप्यारामेति ॥ वापी दीर्घिका आराम उपवनम् तडागः पुष्करिणी कूपः प्र. सिद्धः भवनं गृहम् एतेषामारंभप्रतिष्ठे । आरंभो निर्माणं प्रतिष्ठा उत्सर्गः तत्र गृहप्रतिष्ठा गृहप्रवेशो ज्ञेयः । व्रतानामनंतव्रतादीनामारंभो ग्रहणं उत्सर्ग उत्थापनम् । महादानानि तुलापुरुषादीनि सोमः सोमयागः अष्टका अष्टकाश्राद्धं गोदानं केशांतसंज्ञं कर्म आग्रयणं नवान्नेष्टिः । प्रपा जलशाला प्रथमकोपाकर्म प्रथमारभ्यमाणं श्रावणीकर्म वेदव्रतं महानाम्यादित्रयं महानाम्नीव्रतमुपनिषतं वेदव्रतं च नीलोद्वाहः काम्यवृषोत्सर्गः अतिपन्नशिशुसंस्काराः अतिपन्ना अतिक्रांता जातकर्मादयः शिशूनां संस्काराः देवस्थापनम् ॥ ४६ ॥
अथान्यानि शार्दूलविक्रीडितेनाह
Aho ! Shrutgyanam