________________
शुभाशुभप्रकरणम् । येन देवशरणोऽपि मानवः । दूरतस्त्यजति पौरुषं तदा तेन न स्फुरति दैवतोऽधिकम् ।। पौरुषेण हृदयेप्सितां गतिं प्राप्नुवंति पुरुषाः सुमेधसः । यांति देवशरणा लयं यथा पादपा ज्वलति दावपावके इति ॥ शकुननिमित्तादिभिः सूचितमशुभं दैवफलं शुभेन प्रयत्नेन वंच्यत एव । यथा च वसंतराजः । तन्निरूप्य शकुनेन दुःखदं वंचयंति नियतं समुद्यतम् । पौरुघेण पुरुषाः सुमेधसः संश्रयंति पुनरात्मनो हितमिति । तदैवफलं दुःखं समुद्यतं शकुनेन निरूप्यं ज्ञातारः पुरुषाः पौरुषेण वंचयंतीत्यर्थः । यथा येन ग्रहेण यावती दशांतर्दशा वा दत्ता तस्याः फलपरिपाकस्तावंतं कालमभिव्याप्य भवेदेवेति स्थिते दशाप्रवेशकालीनचंद्राद्यच्छुभाशुभफलनिरूपणं यथा तस्य दशाफलस्यान्यथात्वमल्पत्वमाधिक्यं वा रुंधयति तद्वदेतदपि बोहव्यम् । नन्वनंतरोक्तसर्पविषवैद्यादिदृष्टांतेन पौरुषमेव फलसाधनं कथं न स्यात् । तथा च वृहद्यात्रायां वराहः । तथा परमुपेक्ष्यैव दैवं धैर्यावलंबिनः । प्रत्यक्षतः क्रियासिद्धौ केवलं जगुरुद्यमम् ॥ उत्थानहीनो राजा हि बुद्धिमानपि सर्वदा । प्रधर्षणीयः शत्रूणां भुजंग इव निर्विषः ॥ विधानगणनाजडः पुरुषकारमुक्तादरो मनोरथपरिश्रमैन परिचुंबति श्रीमुखम् । पराक्रमविनिश्चितैकसुनयो हि सद्यः कृतं हरिर्मदसुवासितं पिबति कुंजरासमध इत्यादि । उच्यते । समानभूमिषु समानसलिलादिप्रयत्नेऽपि फलवैचित्र्यदर्शनात् कारणांतरं कल्प्यते तदेव दैवमिति । अत उभयोोंगे सत्येव फलसिद्धिरिति । एतदपि तत्रैव । कृषिष्टिसमायोगादृश्यते फलसिद्धयः । अस्मिन्नर्थे शृणु श्लोकान्दैपायनमुखोद्गतान् ॥ कृषिः पौरुषं दृष्टिदैवं कर्षकः पौरुषेण कृषि करोति तां दैवं वृष्टया साधयति । अथ कृषि करोति चेत्तदा दृष्टया विना न किंचित्फलमाप्नोति । यदि पुनः कर्षको बीजं वपति दैवं च वर्षति तदा फलमधिकमुत्पद्यते । एवं दैवपुरुषकारयोः समयोर्यत्फलसिद्धयो दृश्यते । अत्रार्थे श्रीव्यासमुखोद्गता इमे श्लोकाः । न विना मानुषं दैवादैवं वा मानुषाद्विना । नैको निवर्तयत्यर्थमेकारणिरिवानलमिति । केचिद्गुद्धिः कर्मनुसारिणीति मान्यमानाः प्रयत्नोऽपि दैवरूप इति कृत्वा दैवमेव फलसिद्धेः कारणमिति वदंति तन्न । अनवस्थादोषप्रसंगात् । तथाहि । प्राकार्जितपौरुषमेव किल दैवशब्देनोच्यते । अत्रत्यः प्रयत्नः प्राचीनपौरुषलक्षणेन देवेन जन्यते । तदपि तत्प्राचीनपौरुषजन्यमित्यनवस्थाऽतः प्रयत्नोऽपि दैवप्रेरित इत्यनुपपनम् । ननु बीजांकुरन्यायेनानवस्थादोषो न भवतीतिचेन्न । नहि बीजांकुरन्यायेन दैवमेव मूलमिति निश्चीयते नापि प्रयत्नः । अतः सत्युभययोगे फलसिद्धिरिति तत्त्वम् । एवं चेत्तर्हि पू. वोक्तानां शौनकादिवाक्यानां । येन तु यत्प्राप्तव्यं तस्य विपाकं सुरेशसचिवोऽपि । यः साक्षानियतिज्ञः सोऽपि न शक्तोऽन्यथा कर्तुमित्यादिकानां का गतिः । उच्यते । दैवं तु दृढकमजमदृढकर्मजं चेति द्विविधम् । तत्र दृढकर्मजस्यावश्यंभावित्वात् ग्रहशांत्यादिरूपापूर्वप्रयनादपि तन्निवारयितुं न शक्यते । दृढमूलत्वात् प्रबलवाताघातेऽपि दृढमूलपादपवत् । अह
Aho ! Shrutgyanam