________________
मुहूर्तचिंतामणी
त्वेतच्छास्त्रस्य सम्यग्ज्ञानाद्ब्रह्मसायुज्यमिति । तथाच गर्गः । ज्योतिश्चक्रे तु लोकस्य सर्वस्योक्तं शुभाशुभम् । ज्योतिर्ज्ञानं तु यो वेद स याति परमां गतिम् ॥ सूर्यसिद्धांते । दिव्यं चक्षुर्ब्रहाणां तु दर्शितं ज्ञानमुत्तमम् । विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शाश्वतम् ॥ वराहः । न सांवत्सरपाठी च नरके परिपच्यते । ब्रह्मलोकप्रतिष्ठां च लभते दैवचिंतक इति । तस्माज्ज्योतिःशास्त्रमवश्यमध्येतव्यमिति स्थितम् । तत्राप्यार्षवाक्यानां पाठमात्रेणापि फलमस्ति स्मृत्यादिपठनवदिति । अथ मुहूर्तप्रयोजनमाह सत्याचार्यः । शुभक्षणक्रियारंभजनिता पूर्वसंभवाः । संपदः सर्वलोकानां ज्योतिस्तत्र प्रयोजनमिति । तेन शुभमुहूर्तारब्धं कार्यं सिध्येदशुभमुहूर्तारब्धं तु न सिद्ध्येदिति । नन्वेतन्न युज्यते । येन तु यत्प्राप्तव्यं तस्य विपाकं सुरेशसचिवोऽपि । यः साक्षान्नियतिज्ञः सोऽपि न शक्तोऽन्यथा कर्तुमिति शौनकोक्तेः । प्राचीन सदसत्कर्मरूपदैवस्यावश्यंभावित्वादिति चेन्न । विवाहादिषु विहितकालस्य पुरुषप्रयत्नसाध्यत्वादुभययोगे सत्येव कार्यसिद्धिर्न केवलदैवेनेति । तदुक्तं केशवार्किणा । फलेद्यदि प्राक्तनमेव तत्किं कृप्याद्युपायेषु परः प्रयत्नः । श्रुतिः स्मृतिश्चापि नृणां निषेधविध्यात्मके कर्मणि किं निषण्णेति । यदि तु दैवमेव फलेत्तदा सर्वो जनः कृष्याद्युपायेषु कथं प्रवर्ततेति । किंच श्रुतिस्मृत्यादयोऽपि निषेधविध्यात्मका निरर्थकाः स्युः । न वृक्षमारोहेन कूपमवरोहेन्न बाहुभ्यां नदीं तरेन्न प्राणसंशयमभ्यापद्येतेत्यादीनामाश्वलायनादिवचनानां चिकित्साशास्त्रस्येव वैयर्थ्यप्रसंगः स्यादित्यर्थः । याज्ञवल्क्योsपि । दैवे पुरुषकारेऽपि कर्मसिद्धिर्व्यवस्थिता । तत्र दैवमभिव्यक्तं पौरुषं पौर्वदै - हिकमिति । कर्मसिद्धिः फलावाप्तिरिष्टानिष्टलक्षणा सा च केवलदैवे न व्यवस्थिता अपितु पुरुषकारेऽपि । पुरुषकारः प्रयत्नः पुरुषकाराभावे दैवमेव नास्तीत्याह । तत्र दैवमिति । पूर्वदेहाजितपौरुषमेव दैवमित्युच्यते तच्चाल्पपुरुषप्रयत्नानंतरं महाफलोदयेनाऽभिव्यक्तं भवति । अतएव वसंतराजः । पूर्वजन्मजनितं पुराविदः कर्म दैवमिति संप्रचक्षते । उद्यमेन समुपार्जितं तदा वांछितं फलति नैव केवलमिति । दैवप्रयत्नयोरन्यतरेण सिद्धिर्न भवतीत्यत्र दृष्टांतमाह याज्ञवल्क्यः । यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् । तद्वत्पुरुषकारेण विना दैवं न सिद्ध्यति ॥ केशवार्कोऽपि । प्राक्कर्मबीजं सलिलानलोर्वीसंस्कारवत्कर्म विधीयमानम् । शोषाय पोषाय च यस्य तस्य तस्मात्सदाचारवतां न हानिरिति ॥ यत्प्राक्कर्म जन्मांतरोपा - जिंतं कर्म दैवरूपं तस्य विधीयमानमधुना क्रियमाणं कर्म शोषाय पोषाय च भवति । बीजं सलिलानलोर्वीसंस्कारवत् । यथा सद्बीजं शुभसलिलादिसंस्कारैः संस्कृतं सद्देति व च तद्वत्प्राक्कर्माप्यैहिकेन सत्प्रयत्नेन वर्धतेऽन्यथा क्षीयते इत्यर्थः । तस्माज्ज्योतिःशास्त्रविहितकाले विवाहादिकुर्वतां शांतिचिकित्सादिसदाचारवतां पुरुषाणां सदा न हानिः स्यात् । अन्यच्च । दैवं हि पुरुषनिष्ठं तद्देशकालवशत एव विपच्यते । दुष्टमपि दुष्टांतरसाहित्येनैतदुष्टकारि भवति । यथा दुर्जनो रंध्रान्वेषणेन । अतएव वसंतराजः । सर्पवह्निविषकंटकादिकं
I
४
Aho! Shrutgyanam