________________
शुभाशुभप्रकरणम् ।
दिश्रुतयः संति । तत्र वषोदिज्ञानं वसंताद्यूतुज्ञानं दर्शपूर्णमासयोर्ज्ञानं च ज्योतिषं विना सर्वथा न निर्वहतीत्यवश्य मध्येतव्यं ज्योतिःशास्त्रम् । उक्तंच वेदांगज्योतिषे । वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः । तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञान् ॥ यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदांगशास्त्राणां ज्योतिषं मूर्धनि स्थितम् || तस्मात्कर्मोपयोगिकतयाऽवश्यमध्येतव्यं ज्योतिःशास्त्रम् । तच्च सुपरीक्षितशिष्याय देयम् । तदुक्तं श्रुतौ । विद्या ह वै ब्राह्मणमाजगाम । गोपाय मा शेवधिष्टेऽहमस्मि । असूयकायानृजवेऽयताय न मा ब्रूया वीर्यवती तथा स्याम् । अन्यच्च । नैतद्देयं दुर्विनीताय जातु ज्ञानं गुप्तं तद्धिसम्यक्फलाय । अस्थाने हि स्थाप्यमानैव वाचां देवी कोपान्निर्दहेत्तं चिराय || विनयावनताय दीयमानं प्रभवेत्कल्पलतेव सत्फलाय । उपकृत्यनुचितकानि शास्त्राण्युपकारस्य पदं हि साधुरेवेति । शूद्रपाठे च महान्दोषः । गर्गः । स्नेहालोभाच्च मोहाच्च यो विप्रोऽज्ञानतोऽपि वा । शूद्राणामुपदेशं तु दद्यात्स नरकं व्रजेदिति । ज्योतिःशास्त्राध्ययने फलमाह मांडव्यः । एवंविधस्य श्रुतिनेत्रशास्त्रस्वरूपभर्तुः खलु दर्शनं वै । नित्यशेषं कलुषं जनानां षडब्दजं धर्मसुखास्पदं स्यात् ॥ अत्र ज्ञानविशेषेण ज्योतिर्विदः पूजातारतम्यं जीर्णैरभ्यधायि । दशदिनकृतपापं हंति सिद्धांतवेत्ता त्रिदिनजनितदोषं तंत्रविज्ञः स एव । करणभगणवेत्ता हंत्यहोरात्रदोषं जनयति घनमंहस्तत्र नक्षत्रसूची ॥ नक्षत्रसूचिलक्षणं वराहसंहितायाम् | अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते । सपंक्तिदूपकः पापो ज्ञेयो नक्षत्रसूचकः ॥ तिथ्युत्पत्तिं न जानंति ग्रहाणां नैव साधनम् । परवाक्येन वर्तते ते वै नक्षत्रसूचकाः ॥ नक्षत्रं सूचयतीति नक्षत्रसूची । नक्षत्रसूचकोद्दिष्टमुपवासं करोति यः । स व्रजत्यंधतामिस्त्रं सार्धमृक्षविडंबना || नक्षत्रसूचकं पापं भिषजं शुल्कजीविनम् । तादृंपौराणिकादींश्च वाङ्मात्रेणापि नार्चयेत् ॥ ऋक्षविडंविना नक्षत्रसूचकेन सहांधतामिस्त्रं नरकं व्रजति अतश्चायथाशास्त्रमादेशक एव नक्षत्रसूचको न तु संपूर्णशास्त्रपरिज्ञाता । दैवज्ञत्वं प्रपद्यत इत्युक्तत्वात् । पूर्वकर्मार्जितसदसत्कर्मविपाको दैवं तज्जानातीति दैवज्ञस्तस्य भावो दैवज्ञत्वम् । गुरुः । दैवज्ञैः शास्त्रतत्वज्ञैर्मुहूर्तोऽन्विष्यते यदि । सन्मुहूर्तः समन्वेप्यो नान्यैर्नक्षत्रसूचकैरिति । अतएव कश्यपो वेदपारगसाहित्येनैव नक्षत्रसूचकस्य श्राद्ध भोजनमाह । अरिर्विश्रंभहंता च व्यंगो नक्षत्रसूचकः काणः कुब्जश्च मंदश्व श्वित्री मूर्खश्व कुष्ठवान् ॥ सर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैरिति । वसिष्ठः । त्रिस्कंधपारंगम एव पूज्यः श्राद्धे सदा भूसुरवंदमध्ये | नक्षत्रसूची खलु पापरूपो हेयः सदा सर्वसुधर्मकृत्ये । वराहोऽपि । नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता । चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते ॥ मुहूर्ततिथिनक्षत्रमृतवश्चायनानि च । सर्वाण्येवाकुलानि स्युर्न स्यात्सांवत्सरो यदि ॥ अतो गणकानां यदपांक्तेयत्वंमभ्यधायि धर्मशास्त्रे तच्च सूचकाभिप्रायेण ज्ञेयम् । महाप्रयोजनं
1
Aho! Shrutgyanam