________________
मुहूर्तचिंतामणौ क्रियाकलापेति ॥ अनंताख्यज्योतिर्वित्पुत्रः स प्रसिद्धो रामो मुहूर्तचिंतामणि मुहूर्तानां दिनशुद्धिविशेषाणामथवा दिनस्य रात्रैर्वा पंचदशो विभागस्तत्र लक्षणया तदुपलक्षितः कालो मुहूर्तशब्देनोच्यते । तस्य चिंता शुद्धयशुद्धिरूपो विचारस्तस्य मणिरिव मुहूतचिंतामणिः । यथा मणिहीरकादिः समस्तकांतीनामाधारस्तथायमपि ग्रंथो निखिलमुहूर्तानामाधार इत्यन्वर्थनामानं मुहूर्तचिंतामणिं ज्योतिषग्रंथमातनोति । निषेधविध्यादिसन्निवेशविशेषेण निरूपयतीत्यर्थः । ननु जीर्णग्रंथैरेव मुहूर्तविचारे सिद्धे किमनेनेत्यत आह । कीदृशं मुहूर्तचिंतामणि क्रियाकलापप्रतिपत्तिहेतुम् । क्रिया जातकर्मादिकास्तासां कलापः समूहस्तस्यामुकस्मिन् शुभदिने कार्यमेतदस्मिन्नशुभदिने न कार्यमित्येवंरूपा द्रुततरं प्रतिपत्तिः सम्यग्ज्ञानं तस्य हेतुं कारणम् । अयमर्थः । अन्यग्रंथेषु तिथ्यादिप्रकरणेषु तिथ्यादिशुद्विरुक्ता तज्ज्ञानं तत्प्रकरणानां पुनःपुनरालोडनेन सिद्ध्येदिति गौरवम् । अत्रत्वेकस्मिन्नेव पद्ये यो यो मुहूर्तो विचार्यते तस्य तस्य तत्रैव निर्वाह इति लाघम् । नन्वन्येष्वपि ग्रंथेष्वेवंविधमुहूर्तनिरूपणाद्वयर्थोऽयं श्रम इत्यत आह । पुनः कीदृशं मुहूर्तचिंतामणि संक्षिप्तसारार्थविलासगर्भम् । संक्षिप्तश्चासौ सारार्थविलासगर्भश्च तं सारार्थों निष्कृष्टार्थस्तस्य विलासः प्रकाशः स गर्ने यस्यासौ अत्र शब्दलाघवेन निष्कृष्टार्थस्य निरूपणात् यथा गुरुमुखं विनैवार्थज्ञानं सद्यो मनसि जागर्ति तथा नान्यग्रंथेषु । तत्र शब्दकाठिन्यागुरुमुखादपि झटित्यर्थज्ञानं न भवतीत्येतदर्थमस्यारंभ इति । ननु संबंधादिचतुष्टयकथनं विना कथं श्रोतप्रवृत्तिः । उक्तं च । सिद्धिः श्रोतृप्रवृत्तीनां संबंधकथनाद्यतः । तस्मात्सर्वेषु शास्त्रेषु संबंधः पूर्वमुच्यते ॥ किमेवात्राभिधेयं स्यादिति पृष्टस्तु केनचित् । यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यत इति ॥ उच्यते । मुहूर्तचिंतामणिमित्यनेन पदेनैव सर्वं सूचितम् । तथाच नारदः । अस्य शास्त्रस्य संबंधो वेदांगमिति धातृत इति । यद्वा । अत्राभिधेयपदार्थानां मुहूर्तानां ग्रंथस्य च प्रतिपाद्यप्रतिपादकभावः संबंधः । प्रयोजनं तु शुभाशुभनिरूपणं विवाहादिकालनिर्णयश्च । यदाह नारदः । प्रयोजनं च जगतः शुभाशुभनिरूपणमिति । कश्यपोऽपि । ग्रहणग्रहसंक्रांतियज्ञाध्ययनकर्मणाम् । प्रयोजनं व्रतोद्वाहक्रियाणां कालनिर्णय इति । तज्जिज्ञासुरधिकारी । स च द्विज एव नान्यः । उक्तं च नारदेन । सिद्धांतसंहिताहोरारूपस्कंधत्रयात्मकम् । देवस्य निर्मलं चक्षुयोतिःशास्त्रमकल्मषम् ॥ विनैतदखिलं श्रौतस्मातकर्म न सिद्धयति । तस्माजगद्धितायेदं ब्रह्मणा निर्मितं पुरा । अतएव द्विजैरेतदध्येतव्यं प्रयत्नतः । अत्रैवकारस्य पाठक्रमेण योजने प्रयोजनं विनैव ज्योतिःशास्त्राध्ययनस्यावश्यकत्वं प्रतीयते । द्विजैरेवेति व्याख्याने द्विजव्यतिरिक्तैः शूद्रै ध्येयामिति च प्रतीयते । व्याख्यानद्वयमपि युक्तमेव । ननु कथं श्रौतस्मातकर्मोपयोगि ज्योतिषमिति चेदु. च्यते । अष्टवर्ष ब्राह्मणमुपनयीत वसंते ब्राह्मणोऽनीनादधीत दर्शपौर्णमासाभ्यां यजेतेत्या
Aho ! Shrutgyanam