________________
11 T: 11
॥ मुहूर्तचिंतामणिः ॥
॥ रामकृतप्रमिताक्षराटीकासहितः ॥
शुभाशुभप्रकरणम् ॥ १ ॥ कैलासे पूर्णराकाहिमकररुचिरे वीक्ष्य बिंबं स्वकीयं भूयोभूयोऽपि धावन्प्रतिभटकरटिस्पर्धया चंडशुंडः ॥ मा धाव त्वं त्वदंघ्रिप्रहतिभिरभितो धूयतेऽसौ धरित्रीत्यंबावाग्भिर्निरुद्धाः कपटकरटिनः केलयो नः पुनं ॥ १ ॥ मुहूर्तचिंतामणिसंज्ञकस्य स्वयं कृतस्य प्रमिताक्षराख्याम् || रामो विधत्ते विवृतिं प्रणम्य विष्ण्वर्करुद्रान् पितरौ गुरूंश्र ॥ २ ॥ प्रारिप्सितस्य ग्रंथस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारानुमितश्श्रुतिबोधितकर्तव्यताकं स्वाभीष्टगणेशदेवताशीर्वादरूपं मंगल मिंद्रवज्जयोपनिबध्नाति
गौरीश्रवः केतक पत्रभंगमाकृष्य हस्तेन ददन्मुखाग्रे ॥ विनं मुहूर्ताकलित द्वितीयदंतप्ररोहो हरतु द्विपास्यः ॥ १ ॥ गौरीश्रव इति ॥ द्विपस्य गजस्यास्यं मुखं यस्येति द्विपास्यो गणेशो विघ्नं हरतु नाशयतु । युष्माकमिति शेषः । कीदृशो गणेशः गौरीश्रवः केतकपत्रभंगं हस्तेनाकृष्य मुखाग्रे ददत् । गौरी पार्वती तस्याः श्रवणयोः कर्णयोः स्थितं केतक्याः पुष्पं केतकं
य पत्रं पर्ण तस्य भंगं खंड हस्तेन शुंडादंडेनाकृष्य हठाङ्गृहीत्वा स्वमुखाग्रे स्वमुखौष्ठे ददाति स्थापयतीति ददत् । अनेन गणेशस्य बाललीला सूचिता । बालोऽपि मातृसमीपवर्ति यत्किचित्स्वेष्टं वस्तु बलात्कारेण गृहीत्वा मुखे निक्षिपतीति । अतएव मुहूर्ताकलितद्वितीयदंतप्ररोहः । मुहूर्त क्षणमात्रमाकलितोऽनुसृतो द्वितीयदंतप्ररोहो द्वितीयदंतोद्गमो येन सः । अनेन केतकपत्रस्य मुखस्थापनसमये यावन्निगरणं न करोति तावद्गणेशोऽपि द्विदंतएवालोकि । लोक्कैरित्यभूतोपमेयम् ॥ १ ॥
अथ ज्योतिषग्रंथमारभमाणो विषयप्रयोजनसंबंधाधिकारिणः सूचयन्कर्तव्यमुपजातिकया प्रतिजानीते
क्रियाकलापप्रतिपत्तिहेतुं संक्षिप्तसारार्थविलासगर्भम् ॥ अनंतदैवज्ञसुतः स रामो मुहूर्तचिंतामणिमातनोति ॥ २ ॥
Aho! Shrutgyanam