________________
विवाहप्रकरणम् ।
१३९
अथ विवाहादन्यत्र यज्ञोपवीतादौ कैश्विद्विवाहेऽपि सप्तशलाकाचक्रवेधो वर्ज्य उक्तस्तदर्थं चक्रन्यासं विनैव सप्तशलाकावेधं शार्दूलविक्रीडितेनाह
शाक्रेज्ये शतभानिले जलशिवे पौष्णार्यमर्क्षे वसुare वैश्वसुधांशुभे हयभगे सार्पानुराधे मिथः ॥ हस्तो पांतिमभे विधातृविधिभे मूलादिती त्वाष्ट्रभाजांत्री याम्यमधे कृशानुहरिभे विडे कुभृद्रेखिके ॥ ५७ ॥
शाक्रेज्ये इति ॥ कुभृद्रेखिके सप्तशलाकाचक्रे शाक्रेज्ये ज्येष्ठापुष्यनक्षत्रे मिथः परस्परं क्रूराधिष्ठितत्वेन विद्धे ज्ञेये । एवं जलशिवे पूर्वाषाढार्द्रे इत्यादि व्याख्येयम् । दीपिकायाम् । यस्याः शशी सप्तशलाकचक्रे पापैरपापैरथवा विवाहे । उद्वाहवस्त्रेण सुसंकृतांगी श्मशानभूमिं रुदती प्रयातीति ॥ ५७ ॥
अथ क्रूराक्रांतादिदोषं सापवादमनुष्टुभाह
ऋक्षाणि क्रूरविद्धानि क्रूरभुक्तादिकानि च ।। भुक्त्वा चंद्रेण मुक्तानि शुभाणि प्रचक्षते ॥ ५८ ॥
ऋक्षाणीति ॥ क्रूरग्रहैर्विद्धानि तथा क्रूरैर्मुक्तानि त्यक्तानि आदिशब्दात्क्रूरयुतानि क्रूरगंतव्यानि चकारात्रिविधोत्पातदूषितानि च नक्षत्राणि तानि यदि चंद्रेण भुक्त्वा मुक्तानि तदा शुभाणि शुभकर्मार्हाणि विवाहादौ योग्यानि बुधाः प्रचक्षते कथयति ॥ ९८ ॥ अथ लत्तादोषमुपजातिकयाह
ज्ञराहुपूर्णेदुसिताः स्वपृष्ठे भं सप्तगोजातिशरैर्मितं हि ॥ संलत्तयंतेऽर्कशनीज्यभौमाः सूर्याष्टतर्काग्निमितं पुरस्तात् ।। ५९ । ज्ञराह्निति ॥ गावो नव जातयो द्वाविंशतिः शराः पंच एतैर्मितं भं स्वाक्रांतनक्षत्रात् ज्ञराहुपूर्णैदुसिताः स्वष्टष्ठे संलत्तयंते । यथा बुधः सप्तमं राहुर्नवमं राहोः सदा वक्रगत्वान्नवमगणना क्रमेणैव कार्या यथाश्विन्यां राहुराश्लेषां लत्तयतीति पूर्णेदुः पूर्णिमांतचंद्रो द्वाविंशम् । तच्च । कृष्णपक्षे पंचम्यादितिथौ संभवति शुक्रः पंचमं स्वष्टष्ठे लत्तयतीत्यर्थः । अर्कशनीज्यभौमाः क्रमेण पुरस्ताद सूर्याष्टकनिमितं संलत्तयंते । यथा । सूर्यः स्वाक्रांतनक्षत्राद्वादशं शनिरष्टमम् गुरुः षष्ठं भौमस्तृतीयं नक्षत्रं अग्रतो लत्तयंतीत्यर्थः । वराहः । रविलत्ता वित्तहरी नित्यं कौजी विनिर्दिशेन्मरणम् । चांद्री नाशं कुर्याद्वौधी नाशं वदत्येव । सौरी मरणं कथयति बंधुविनाशं बृहस्पतेर्लत्ता । मरणं लत्ता राहोः कार्यविनाशं भृगोर्वदतीति ॥ ९९ ॥
Aho! Shrutgyanam