________________
१२८
मुहूर्तचिंतामणौ
पुनर्वसुः इंदुर्मृगः हरिः श्रवणः पौष्णं रेवती मरुत्स्वाती लघूनि अश्विनीपुष्यहस्ताः एतानि नव भान्यमरगणो देवगण इति ॥ २९ ॥ निजेति । स्वस्वगणे विद्यमानयोः स्त्रीपुरुषनक्षत्रगणयोरत्युत्तमा प्रीतिः स्यात् । अमरमनुजयेोर्देवमनुष्ययोः स्त्रीपुरुषयोः परस्परं प्रीतिर्मध्यमा स्यात् । असुरमनुजयो राक्षसमनुष्ययोः स्त्रीपुरुषयोर्मृत्युरेव प्रदिष्टः । प्रबल दुर्बलन्यायेन मनुष्यगणस्यैव नाशः । शार्ङ्गये । रक्षोगणः पुमान् चेत्स्यात्कन्या भवति मानवी । केपीच्छंति तदोद्वाहं व्यस्तं कोऽपीह नेच्छति ॥ एतत्तुल्यन्यायाद्देवराक्षसयोरपि द्रष्टव्यम् । अस्यापवादमाह गर्गः । रक्षोगणो यदा पुंसां कुमारी नृगणा भवेत् । सकूटं खगप्रीतिर्योनिशुद्धं शुभं तदेति । अत्रेयं गुणकल्पना । नररक्षसोर्महद्वैरं तत्र गुणाभावः देवरक्षसोर्वैरं तत्र गुणाभावः देवमनुष्यत्वे चत्वारः गणैकत्वे षड्गुणाः ॥ ३० ॥
अथ राशिकूटमनुष्टुभाह
मृत्युः षडष्टके ज्ञेयोऽपत्यहानिर्नवात्मजे ॥ द्विर्द्वादशे निर्धनत्वं द्वयोरन्यत्र सौख्यकृत् ॥ ३१ ॥
मृत्युरिति ॥ स्त्रीपुरुषयोः परस्परं षष्ठाष्टमराशित्वे सति मृत्युर्ज्ञेयः । एवं नवात्मजे नवपंचमेऽपत्यानां हानिः एवं द्विर्द्वादशे निर्धनत्वं दारिद्र्यं स्यात् । अन्यत्र तृतीयैकादशचतुर्थदशमे समसप्तमे वा सति सौख्यकृत्पाणिपीडनं स्यात् ॥ ३१ अथास्य दुष्टभकूटस्य परिहारं शार्दूलविक्रीडितेनाहप्रोक्ते दुष्टभकूटके परिणयस्त्वेकाधिपत्ये शुभो suोराशीश्वर सौहृदेऽपि गदितो नाडयृक्षशुद्धिर्यदि ॥ अन्यक्षैशपयोर्बलित्वसखिते नाडवृक्षशुद्ध तथा ताराशुद्धिवशेन राशिवशताभावे निरुक्तो बुधैः ॥ ३२ ॥ प्रोक्ते इति ॥ स्त्रीपुरुषराश्योर्द्वयोरेकाधिपत्ये सति एकस्वामिकत्वे सति प्रोक्ते दुष्टभकूटे षडष्टकादावपि विवाहः शुभो गदितः । यथा । मेषवृश्चिकयोः तुलावृषभयोर्वा नवपंचमे त्वेकाधिपत्याभावः द्विर्द्वादशे मकरकुंभयोः अथवा राशीश्वरयोः राशिस्वामिनोः सौहृदे मैत्रेऽपि यदि नाडीनक्षत्रयोः शुद्धिर्वेधो न भवेत्तदापि दुष्टकूटके विवाहः शुभः । यथा षट्वाष्टके मीनसिंहराश्योर्नवपंचमे मेषधनुषोर्द्विर्द्वादशे मीनमेषयोरित्यादौ । तथाच वसिष्ठः। द्विर्द्वादशे वा नवपंचमे वा षट्काष्टके राक्षसयोषितो वा । एकाधिपत्ये भवनेशमैत्रे शुभाय पाणिग्रहणं विधेयमिति । अन्यच्च । विषमात्कन्यकाराशेः षष्ठं षष्ठाष्टकं न सत् । समात्षष्ठं शुभं ज्ञेयं विपरीतं न शोभनम् । अन्यर्क्षेशपयोरिति । अन्यर्क्षे प्रीतिषट्काष्टकादिभ्योऽन्यराशौ राशिस्वामिनोः परस्परशत्रुत्वे वा सति अंशपयोस्तद्राशिनवांशस्वामिनोर्बलित्वसखिते स्याताम् । बलित्वं च सखिता च प्रथमाद्विवचनांतं पदं बलित्वं उच्चादिस्थानस्थित
Aho! Shrutgyanam