________________
विवाहप्रकरणम् ।
१२७ . अथ ग्रहमैत्री शार्दूलविक्रीडिताभ्यामाहमित्राणि शुमणेः कुजेज्यशशिनः शुक्रार्कजो वैरिणी सौम्यश्चास्य समो विधोधुंधरवी मित्रे न चास्य द्विषत् ॥ शेषाश्चास्य समः कुजस्य सुहृदश्चंद्रेज्यसूर्या बुधः शत्रुः शुक्रशनी समौ च शशभृत्सूनोः सिताहस्करी ॥ २७ ॥ मित्रे चास्य रिपुः शशी गुरुशनिक्ष्माजाः समा गीष्पतेमित्राण्यर्ककुजेंदवो बुधसितौ शत्रू समाः सूर्यजः॥ मित्रे सौम्यशनी कवेः शशिरवी शत्र कुजेज्यौ समौ मित्रे शुक्रबुधौ शनेः शशिरविक्ष्माजा द्विषोऽन्यः समः॥२८॥ मित्राणीति । मित्रे चेति ॥ द्युमणेः सूर्यस्य भौमगुरुचंद्राः मित्राणि शुक्रशनी अस्य वैरिणौ अस्य सौम्यो बुधः समः । विधोः चंद्रस्य बुधरवी मित्रे च पुनरस्य विधोढिषत् शत्रुर्नास्ति मंगलगुरुशुक्रशनयः समा एव । अथ भौमस्य गुरुचंद्रसूर्याः मित्राणि बुधः शत्रुः शुक्रशनी समौ । अथ । शशभृत्सूनोः बुधस्य सिताहस्करौ शुक्ररवी मित्रे अस्य बुधस्य शशी शत्रुः गुरुशनिभौमाः समाः । अथ गीप्पतेर्गुरोः सूर्यभौमचंद्राः मित्राणि बुधशुक्रौ शत्रू सूर्यजः शनिः समः । अथ कवेः शुक्रस्य बुधशनी मित्रे चंद्रसूर्यौ शत्रू कुजगुरू समौ । अथ शनेः शुक्रबुधौ मित्रे रविचंद्रभौमा द्विषो वैरिणः अन्यो गुरुः समः । अत्र गुणविचारः । तत्रैकाधिपतित्वे परस्परमित्रत्वे पंच गुणाः सममित्रत्वे चत्वारः उभयसमत्वे त्रयो गुणाः मित्रवैरे गुणद्वयं समवैरे एको गुणः परस्परं वैरे गुणाभावः ॥२७॥२८॥ अथ गणकूटं वसंततिलकया शालिन्या चाह
रक्षोनरामरगणाः क्रमतो मघाहिवस्विद्रमूलवरुणानलतक्षराधाः॥ पूर्वोत्तरात्रयविधातृयमेशानि मैत्रादितींदुहरिपौष्णमरुल्लघूनि ॥ २९ ॥ निजनिजगणमध्ये प्रीतिरत्युत्तमा स्यादमरमनुजयोः सा मध्यमा संप्रदिष्टा ॥ असुरमनुजयोश्चेन्मृत्युरेव प्रदिष्टो
दनुजविबुधयोः स्याद्वैरमेकांततोऽत्र ॥३०॥ रक्षोनरेति । निजनिजेति ॥ क्रमतो रक्षोनरामरगणाः पादत्रयेणोच्यते। तक्षा चित्रा राधा विशाखा मघादि एतत्पर्यंत नक्षत्राणि रक्षोगणः पूर्वात्रयमुत्तरात्रयं विधाता रोहिणी यमो भरणी ईश आर्द्रा एतानि भानि नरगणो मनुष्यगणः मैत्रमनुराधा अदितिः
Aho ! Shrutgyanam