________________
१२६
मुहूर्तचिंतामणी
अथ ताराकूटमनुष्टुभाह
कन्यर्क्षाद्वरभं यावत् कन्याभं वरभादपि ॥ गणयेन्नवहृच्छेषे त्रीष्वभिमसत्स्मृतम् ॥ २४ ॥
कन्यक्षदिति ॥ कन्यानक्षत्राद्वरनक्षत्रं यावद्गणयेत् तथा वरनक्षत्रादपि कन्यानक्षत्रं गणयेत् । ततोऽवशिष्टें के नवभिर्भक्ते यदवशिष्टं तच्चेत्रिपंचसप्तमितं भवेत्तदाऽसदशुभं स्मृतम् । अन्यथा एकद्विचतुः षडष्टनवमितं चेत्तदा शुभम् । उभयत्रापि त्रिपंचाद्रिमिते शेषे तारामैत्री नास्त्येव अतो गुणाभावः । एकत्र चेत्तदार्धा मैत्री तदा सार्धेको गुणः उभयत्रापि चेत्र्यादिशेषाभावः तदा पूर्णमैत्रीत्यतो गुणत्रयम् ॥ २४ ॥
अथ योनिकूटं शार्दूलविक्रीडितद्वयेनाह
अश्विन्यंबुपयोर्हयो निगदितः स्वात्यर्कयोः कासरः सिंहो वस्वजपाद्भयोः समुदितो याम्यांत्ययोः कुंजरः ॥ मेषो देवपुरोहितानलभयोः कर्णाबुनोर्वानरः स्याद्वैश्वाभिजितोस्तथैव नकुलचांद्राब्जयोन्योरहिः ॥ २५ ॥ ज्येष्ठामैन्त्र भयोः कुरंग उदितो मूलाद्वयोः श्वा तथा माजीरो दितिसार्पयोरथ मघायोन्योस्तथैवों दुरुः ॥ व्याघ्रो द्वीशभचित्रयोरपि च गौरर्यम्णबुध्यर्क्षयोयोनिः पादयोः परस्परमहावैरं भयोन्योस्त्यजेत् ॥ २६ ॥ अश्विन्यबुपयोरिति । ज्येष्ठामैत्रभयेोरिति च ॥ अश्विनीशततारकयोऽश्व योनिरुक्तः । एवं स्वातीहस्तयोः कासरो महिषः । लुलायो महिषो वाहद्विषत्कासरसैरिभा इत्यमरोक्तेः । कर्णः श्रवणः अंबु पूर्वाषाढा तयोर्वानरो मर्कटः । चांद्र मृगः अब्जयोनिर्ब्रह्मा तनुं रोहिणी तयोरहिः सर्पः । कुरंगो हरिणः अनुराधाज्येष्ठयोः । द्वीशभं विशाखाचित्रयोर्व्याघ्रः । बुध्यक्ष उत्तराभाद्रपदा अर्यमोत्तराफाल्गुनी तयोर्गौयोनिः । अन्यत्स्पष्टम् । फलमाह । पादगयोरिति । एकस्मिन्पादे चरणे गतयोरुक्तनक्षत्रयोन्योः परस्परमहावैरं भवेत् । यथा । अश्विन्यंबुपयोर्हयो निगदितः स्वात्यर्कयोः कासर इति पादः तत्रोक्तयोर्भयोन्योरश्वमहिषयोर्महावैरम् । एवं सिंहहस्तिनोरित्यादि एतत्फलमाह । अत्रिः । एकयोनिषु संपत्यै दंपत्योः संगमः सदा । भिन्नयोनिषु मध्यः स्यादरिभावो न चेत्तयोः ॥ योनेरथो वैरभावः स तु कार्ये वियोगदः । राशिवश्यं च यद्यस्ति कारयेन्न तु दोषभाक् । अत्रातिवैरवैरोदासीनमैत्रातिमैत्रक्रमेण गुणविभागः गोव्याघ्रादीनां अतिवैरं तत्र गुणाभावः शुनकमाजीरादीनां वैरं तत्रैको गुणः । अश्वमेषादीनामौदास्यं तत्र गुणद्वयम् । गोमेषादीनां मैत्रं तत्र गुणत्रयम् । एकयोनौ अतिमैत्रं तत्र गुणचतुष्टयम् ॥ २९ ॥ २६ ॥
Aho! Shrutgyanam