________________
विवाहप्रकरणम् ।
१२५
श्वशुरं हंति मूलजौ । तदंत्यपादजौं नैव तथा श्लेषाद्यपादजाविति पुंस्त्वमविवक्षितम् । ज्योतिर्निबंधे मौंजीबंधनानंतरं मूलाश्लेषादोषो नास्तीत्युक्तम् । मूलव्यालोद्भवो दोषः पुंसां मौंज्यां विनश्यतीति भूपालवल्लभवचनादिति तन्न । मूलाश्लेषादोषः शूद्रविषयः पर्यवस्यति तथा ज्येष्ठोत्पन्नः पुमान्पत्न्यग्रजमग्रजां वा हंति विशाखोत्पन्नश्च पत्न्यनुजमनुजां वा हंति । उक्तं च कलत्रपटले । पत्यग्रजामग्रजं वा हंति ज्येष्ठर्क्षजः पुमान् । तथा भार्यानुजां चै - वानुजं हंति द्विदैवज इत्युक्तम् । तत्परिहारश्च तत्रैव । मूलांत्यपादजौ श्रेष्ठौ तथाश्लेषाद्यपादौ । शांत्यपादौ दुष्टौ तद्वज्ज्येष्ठांत्यपादजाविति । ज्येष्ठाविशाखोत्पन्नपुंसः दोषतत्परिहारनिरूपणं ग्रंथेष्वदृष्टत्वादुपेक्ष्यम् ॥ २० ॥
1
अथाष्टकूटानां नामान्यनुष्टुभाह
वर्णो वश्यं तथा तारा योनिश्च ग्रहमैत्रकम् ॥
गणमैत्रं भकूटं च नाडी चैते गुणाधिकाः ॥ २१ ॥
वर्ण इति ॥ एते वर्णादिमैत्र्यां सत्यां गुणाधिका एकादिगुणाधिकाः स्युः । यथा वर्णमैत्र्यामेको गुणः वश्ये द्वावित्यादि ॥ २१ ॥ तत्रादौ वर्णकूटं प्रमाणिकयाह
द्विजाझषालिकर्कटास्ततो नृपा विशऽप्रिजाः ॥ वरस्य वर्णतोऽधिका वधूर्न शस्यते बुधैः ॥ २२ ॥
द्विजा इति ॥ मीनकर्कटचिका द्विजाः ब्राह्मणाः । ततोऽनंतरमन्ये मेषसिंहधनुराशयो नृपाः क्षत्रियाः । वृषकन्यामकरा विशो वैश्याः । मिथुनतुलाकुंभा अंधिजाः शूद्राः । तत्र वरवधूराश्योर्वर्णी ज्ञात्वा वरस्य वर्णतो ब्राह्मणादिका वधूरधिका ज्येष्ठवर्णा बुधैर्न शस्यते । किंतु समा हीना वा शस्यत इत्यर्थः । एको गुणः सदृग्वर्णे तथावर्णोत्तमे वरे । हीनवर्णे वरे शून्यं केप्याहुः सदृशे दलमिति ॥ २२ ॥
अथ वश्यकूटमिंद्रवज्जयाह
हित्वा मृगेंद्र नरराशिवश्याः सर्वे तथैषां जलजास्तु भक्ष्याः ॥ सर्वेऽपि सिंहस्य वशे विनालिं ज्ञेयं नराणां व्यवहारतोऽन्यत् ॥२३॥
हित्वेति ॥ नरराशयो मिथुनकन्या तुला एषां मेषादयः सर्वेऽपि सिंहं त्यक्त्वा वश्याः । ननु जलचराणां सहानवस्थानात् कथं वश्यत्वं तत्राह । जलजास्तु भक्ष्या इति । एषां नरराशीनां जलजाः मकरकुंभमीनकर्कास्तु भक्ष्याः किंपुनर्वश्या इति सूचयितुं तुशब्दः सिंहस्यालं वृश्चिकं विना सर्वे वश्याः अन्यदनुक्तं चतुष्पदानां जलचराणां वश्यावश्यं नराणां मनुष्याणां व्यवहारतो ज्ञेयम् । वश्यकूटं वश्यभक्ष्यवैरभेदेन त्रिधा तत्र वरराशेः स्त्रीराशौ वश्ये सति गुणद्वयम् । भक्ष्य एको गुणः वैरे गुणाभावः ॥ २३ ॥
Aho! Shrutgyanam