________________
मुहुर्तचिंतामणौ
१२४
अथान्यदपि विशेषांतरमुपजात्याहचूडाव्रतं चापि विवाहतो व्रताचूडा न चेष्टा पुरुषत्रयांतरे ॥ वधूप्रवेशाच सुताविनिर्गमः षण्मासतो वान्दविभेदतः शुभः ॥१८॥
चूडाव्रतमिति ॥ अपिशब्दात्समावर्तनादि चौलमुपनयनं समावर्तनं च विवाहानंतरं पुरुषत्रयमध्य एव नेष्टम् तथा व्रतादुपनयनात् चूडा च पुरुषत्रयपर्यंत नेष्टा तथा वध्वाः स्नुषायाः प्रवेशात्सुताया विनिर्गमोऽपि पुरुषत्रयपर्यंतमेव नेष्टः । मेधातिथिः । पुरुषत्रयपयंत प्रतिकूले खगोत्रिणाम् । प्रवेशान्निर्गमस्तद्वत्तथा मुंडनमंडने इति तस्मान्मूलपुरुषस्य चतुर्थत्वे नायं दोषः । स चायं दोषः पुरुषत्रयेऽपि षण्मासपर्यंतमेव । अत एव षण्मासत इति मासषटकानंतरं परतोऽपि विवाहादिः शुभः । एतन्मूलवाक्यं कुले ऋतुत्रयादर्वागित्यादिना प्रागुक्तं अत्रापवाद उच्यते । वेति । अथवा । अब्दभेदात् वर्षभेदात् षण्मासमध्येऽपि शुभः । यथा माघे विवाहो वैशाखे चौलं यज्ञोपवीतं वा भवतीत्यर्थः । संहितासारावल्याम् । फाल्गुने. चैत्रमासे तु पुत्रोद्वाहोपनायने । भेदादब्दस्य कुर्वीत नर्तुत्रयविलंघनमिति ॥ १८ ॥ अथ मूलाद्यनिष्टनक्षत्रोत्पन्नयोर्वधूवरयोः श्वशुरादिपीडकत्वं वसंततिलकयाह
श्वश्रूविनाशमहिजो सुतरां विधत्तः कन्यासुतौ नितिजो श्वशुरं हतश्च ॥ ज्येष्ठाभजाततनया स्वधवाग्रजं च
शक्राग्निजा भवति देवरनाशकीं ॥ १९ ॥ श्वश्रूविनाशमिति ॥ अहिजो आश्लेषानक्षत्रोत्पन्नौ कन्यापुत्रौ श्वश्वाः साक्षाद्वरस्य मातुः कन्याया वा साक्षान्मातुः विनाशं विधत्तः कुरुतः । तथा नितिजौ मूलोत्पन्नौ श्वशुरं हतः नाशयतः । जनकं जननी हंति भर्तुर्मूलाहिधिष्ण्यजेति वसिष्ठोक्तेः। तुल्यन्यायत्वात्कन्याया अपि साक्षान्मातरम् । ज्येष्ठेति ज्येष्ठानक्षत्रोत्पन्ना कन्या स्वधवाग्रजं भर्तुज्येष्ठभ्रातरं हंति । शक्राग्निजाविशाखोत्पन्ना देवरस्य भर्तुः कनिष्ठभ्रातुर्नाशक: । उक्तं च । ऐंद्री पत्यग्रज हंति देवरं तु द्विदैवजेति ॥ १९॥ एतदपवादमनुष्टुभाह
द्वीशाद्यपायजा कन्या देवरसौख्यदा ॥
मूलांत्यपादसार्पाद्यपादजाते तयोः शुभे॥ २० ॥ द्वीशायेति ॥ स्पष्टार्थम् । न हंति देवरं कन्या तुलामिश्रद्विदैवजा । तदंतपादजा त्याज्या दुष्टा दृश्चिकपुच्छवदिति वृद्धनारदोक्तेः । मूलति । मूलचतुर्थचरणोत्पन्नौ कन्यासुतौ श्वशुरसौख्यदौ आश्लेपाप्रथमचरणोत्पन्नौ च श्वश्वाः। नारदः । सुतः सुता वा नियतं
Aho ! Shrutgyanam