________________
विवाहप्रकरणम् ।
१२३ वचनमेककोशजातयमलविषयम् । तथा च देवलः । यस्य जातस्य यमयोः पश्यंति प्रथमं मुखम् । संतानः पितरश्चैव तस्मिन् ज्यैष्ठयं प्रतिष्ठितमिति । संतानो वंशः यदा तु पुंसो बलातिशयाद्रेतसो द्विधा पातस्तदा कोशद्वये यमलोत्पत्तिः । यदा तु गर्भवायुना एकस्मिन्नेव कोशे रेतसो द्वैधीभावस्तदा एककोशे एव युगपद्यमलं जन्यते । ननु स्त्रीणां विवाह उपनयनस्थान इति स्मृतेः कन्याविवाहस्य पुत्रोपनयनस्य च समानत्वमिति चेन्न । अष्टवर्षं ब्राह्मणमुपनयेदिति वचने ब्राह्मणग्रहणात् स्त्रीशूद्राणां व्रतबंधनिषेधाच्च । यत्तु स्त्रीणां विवाह उपनयनस्थान इत्युक्तं तत्तासां द्विजत्वसिद्ध्यर्थं अतः स्त्रीविवाहे विवाह एव न तूपनयनम् । तस्मात्सोदरकन्यापुत्रयोर्विवाहोपनयनयोः समानसंस्कारत्वाभावात् षण्मासमध्येऽपि ते कार्ये शुभे इति । शुभे विवाहादिमंगलकृत्ये पितृक्रिया श्राद्धक्रिया न कार्या मंगलेनाप्यमंगलमिति नारदोक्तेः । अमंगलं श्राद्धम् । समाप्ते एव मंगले कार्यं न मध्ये इत्यर्थः ॥ १६ ॥ अथ प्रतिकूलनिर्णय मंद्रवज्जयाह
वध्वा वरस्यापि कुले त्रिपूरुषे नाशं व्रजेत्कश्चन निश्चयोत्तरम् ॥ मासोत्तरं तत्र विवाह इष्यते शांत्याथवा सूतकनिर्गमे परैः ॥ १७ ॥
वध्वा वरस्येति ॥ निश्वयोत्तरं वाग्दानानंतरं यदि वध्वाः कन्यायाः वरस्य वा कुले वंशे त्रिपुरुषे पुरुषत्रयमध्ये कश्चन सपिंडो नाशं प्राप्नुयात् तत्र मासोत्तरं मरणदिनादारभ्य त्रिंशद्दिनं प्रतिकूलं ततः शांत्या स्वनुष्ठितया विवाहः सुखेन इष्यते इदं पित्रा - दिभिन्नविषयम् । मांडव्यः । अन्येषां तु सपिंडानामाशौचं माससंमितम् । तदंते शांतिकं कृत्वा ततो लग्नं विधीयते । पित्रादिमरणे तु विशेषः । वरवध्वोः पिता माता पितृव्यश्व सहोदरः । एतेषां प्रतिकूलं चेन्महाविघ्नकरं भवेत् ॥ पिता मातामहचैव माता वापि पिता - मही । पितृव्यः स्त्रीसुतो भ्राता भगिनी वा विवाहिता ॥ एभिरेव विपन्नैश्च प्रतिकूलं बुधैः स्मृतम् । वाग्दानानंतरं यत्र कुलयोः कस्यचिन्मृतिः । तदा संवत्सरादूर्ध्व विवाहः शुभदो भवेत् ॥ पितुराशौचमब्दं स्यात्तदर्धं मातुरेव हि । मासत्रयं तु भार्यायास्तदर्धे भ्रातृपुत्रयोः ॥ अन्यच्च । प्रतिकूले सपिंडस्य मासमेकं विवर्जयेत् । विवाहस्तु ततः पश्चात्तयोरेव विधीयते ॥ दुर्भिक्षे राष्ट्रभंगे च पित्रोर्वा प्राणसंशये । प्रौढायामपि कन्यायां प्रतिकूलं न दुयति || दीर्घरोगाभिभूतस्य दूरदेशस्थितस्य च । उदासवर्तिनश्चैव प्रतिकूलं न विद्यते ॥ संकटे समनुप्राप्ते याज्ञवल्क्येन योगिना । शांतिरुक्ता गणेशस्य कृत्वा तां शुभमाचरेत् ॥ अथावश्यकत्वेऽपवादमाह । अथवेति । आशौचनिर्गमे शांत्या स्वनुष्ठितया विवाहः परैराचार्यैः इष्यते । ज्योतिःप्रकाशे । प्रतिकूलेऽपि कर्तव्यो विवाहो मासमंतरा । शांतिं विधाय गां दत्वा वाग्दानादि चरेद्बुधः ॥ १७ ॥
1
Aho! Shrutgyanam