________________
१२२
मुहूर्तचिंतामणी
न्योद्वाहस्तु निर्गमः || मुंडनं चौलमित्युक्तं व्रतोद्वाहौ तु मंगलम् । चौलं मुंडनमेवोक्तं वर्जयेद्वरणात्परम् || मौंजी तूभयतः कार्या यतो मौंजी न मुंडनम् । अभिन्ने वत्सरेऽपि स्यात्तदहस्तत्र भेदयेत् । अभेदे दिवसस्यापि न कुर्यादेकमंडप इति । एषां समूलत्वे देशकालसंकटे सति बोद्धव्यम् । उक्तं च । एकोदरयोर्द्वयोरेकदिनोद्वाहने भवेन्नाशः । नद्यंतर एवैके दिनेऽप्याहुः संकटे च शुभम् । न प्रतिषिद्धं लग्नं संप्राप्ते संकटे महति । एकोदर संभावयोरेकाहे भिन्नमंडपे काल इति । न चेति सहजयोः सोदरयोर्भ्रात्रोः सहोदरकन्यके न देये नोद्वाह्ये । नारदः । न चैकजन्मनोः पुंसोरेकजन्ये तु कन्यके । नूनं कदाचिदुद्वाह्ये नैकदा मुंडनद्वयमिति । अत्र चकारो ऽनुक्तसमुच्चयार्थस्तेनैकस्मै वराय सहोदरकन्याद्वयमपि न दे - यम् । न पुत्रीद्वयमेकस्मै प्रदद्यात्तु कदाचनेति वसिष्ठोक्तेः । न सहजसुतोद्वाहोऽब्दार्थ इति सुतश्च सुतश्च सुतौ सुता च सुता च सुते सरूपाणामेकशेष इत्येकशेषः । सुता च सुतश्च सुतौ च पुमान् स्त्रियेत्येकशेषः । सुतौ च सुता च सुते च सुतो वेति सुताः इति कृतकशेषेण द्वंद्वे पुमान् स्त्रियेत्येकशेषः । सहजाश्च ते सुताश्चेति कर्मधारयः । तेषां सोदरभ्रातॄणां विवाहः अब्दार्धे षण्मासमध्ये न कार्यः । उद्वाह इत्युपलक्षणम् । ततश्चैकमातृजयोः पुत्रयोः कन्ययोर्वा पुत्रकन्ययोर्वा समानसंस्कारो न कार्य इत्यर्थः । वृद्धमनुः । एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः । न समानां क्रियां कुर्यान्मातृभेदे विधीयते ॥ समानक्रिया मुंडनादिका । भिन्नमातृजयोः समानक्रियायां न दोषः । नारदः । समानापि क्रिया कार्या मातृभेदे तथैव च । विवाहो दुहितुः कार्यो न विवाहश्चतुर्दिनमिति । भिन्नमातुर्दुहितुर्विवाहः समानक्रियायां यदि दिनचतुष्टयमध्ये न कार्य इत्यर्थः । वसिष्ठेन विशेष उक्तः । एकोदरप्रसूतानां नात्र कार्यत्रयं भवेत् । भिन्नोदरप्रसूतानां नेति शातातपोऽब्रवीदिति । चौलोपनयनविवाहरूपं कार्यत्रयम् । आदौ चौलं ततो मौंजी विवाहश्च शुभप्रदः । मातृभेदे बुधैरुक्तो मातुरैक्ये न कर्हिचित् । एवं सति भिन्नोदरमंगलमावश्यकत्वे गृहभेदात् एकगृहे आचार्यभेदाद्वा कार्यम् । वसिष्ठः । द्विशोभनं त्वेकगृहे न चेष्टं शुभं तु पश्चान्नवभिर्दिनैस्तु । आवश्यकं शोभनम् - त्सवो वा द्वारेऽथवा चार्यविभेदतो वेति । यमलजातयोस्त्वयमपि निषेधो नास्ति । एकस्मिन्वत्सरे चैव वासरे मंडपे तथा । कर्तव्यं मंगलं स्वस्त्रेोर्भ्रात्रोर्यमलजातयोः । तत्रापि ज्येष्ठानुक्रमेण कार्यम् । ज्येष्ठानुक्रमस्तु गर्भोत्पत्तिक्रमेण तथा च भागवते तृतीयस्कंधे हिरण्याक्ष - हिरण्यकशिपूत्पत्तौ । प्रजापतिर्नाम तयोकारर्षीद्यः प्राक् स्वदेहाद्यमयेोरजात । तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमस्त साग्रत इति । तथा वैद्यके आत्रेयसंहितायाम् । यदाविशेद्विधाभूतं बीजं पुष्पे परिक्षरत् । तदा भवेद्विधा गर्भः सूतिर्वेशविपर्ययात् ॥ तेन प्रथमं जातः कनिष्ठः अनंतरं जातो ज्येष्ठः । अत एव । यमयोश्चैव गर्ने जन्मतो ज्येष्ठता मतेति । मनुना गर्भे जन्मत इत्युक्तं जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतमिति तु मनु
I
Aho! Shrutgyanam