________________
विवाहप्रकरणम् ।
१२१ ज्येष्ठद्वंद्वमिति ॥ पुत्रो ज्येष्ठः कन्या च ज्येष्ठा मासोऽपि ज्येष्ठ इत्येतत्रिज्येष्ठं यत् तत् कदापि नैव युक्तं न प्रशस्तम् । ज्येष्ठमासे ज्येष्ठयोर्वधूवरयोविवाहो नैव कार्य इत्यर्थः । यदा त्वेकतरज्येष्ठत्वे ज्येष्ठमासो भवति तदा मध्यमं संप्रदिष्टम् । अगतिविषयकमित्यर्थः । एकं ज्येष्ठं अन्यहयमज्येष्ठं तदा शुभमेव। वराहः । द्वौ ज्येष्ठौ मध्यमौ प्रोक्तावेकज्येष्ठः शुभावहः । ज्येष्ठत्रयं न कुर्वीत विवाहे सर्वसंमतम् ॥ अस्यापवादमाह । केचिदिति । सत्यावश्यकत्वे सूर्यं वह्निगं कृत्तिकास्थं त्यक्त्वा ज्येष्ठमासेऽपि ज्येष्ठवरस्य कन्याया विवाहः शुभ इति केचिदूचुः । एतच्च ज्येष्ठापत्यस्य न ज्येष्ठे इति सामान्यतो मंगलकृत्यनिषेधेऽपि द्रष्टव्यम् । भरद्वाजः । ज्येष्ठे ज्येष्ठस्य कुर्वीत भास्करे चानलस्थिते । सोत्सवादीनि कार्याणि दिनानि दश वर्जयेदिति । अत्र ज्येष्ठपुत्रदुहितोज्येष्ठमासवत् मार्गशीर्षे ऽपि मंगलकृत्यनिषेधमाह । भरद्वाजः । मार्गशीर्षे तथा ज्येष्ठे क्षौरं परिणयव्रतम् । आद्यपुत्रदुहित्रोस्तु यत्नेन परिवर्जयेदिति । स्वयमपि । ज्येष्ठापत्यस्य न ज्येष्ठे कैश्चिन्मार्गेऽपि नेप्यत इत्युक्तं प्राक् । केचिद्ग्रहणं शिष्टाचाराभावादिति सूचयितुं नैवान्योऽन्यमिति ज्येष्ठायाः कन्यायाः ज्येष्टपुत्रेण सह विवाहो नैव स्यात् । गर्गः । ज्येष्ठायाः कन्यकायाश्च ज्येष्ठपुत्रस्य वै मिथः । विवाहो नैव कर्तव्यो यदि स्यान्निधनं तयोरिति ॥ १५ ॥ अथान्यं विशेषं हरिणीछंदसाह
सुतपरिणयात्षण्मासांतः सुताकरपाडनं न च निजकुले तद्वद्वा मंडनादपि मुंडनम् ॥ न च सहजयोये भ्रात्रोः सहोदरकन्यके
न सहजसुतोद्वाहोऽब्दार्धे शुभे न पितृक्रिया ॥ १६ ॥ सुतपरिणयादिति ॥ निजकुले इति देहलीदीपन्यायेनात्रापि संबध्यते । निजकुले स्ववंशे सुतस्य पुत्रस्य परिणयात् षण्मासांतः षण्मासमध्ये सुताकरपीडनं कन्याविवाहो न स्यात् । नारदः । पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुत्रये । न तयोव्रतमुद्दाहान्मंडनादपि मुंडनमिति । तद्वदिति निजकुले त्रिपुरुषमध्ये पुत्रस्य कन्याया वा मंडनाद्विवाहान्मुंडनं चौलोपनयनसमावर्तनादि वा तहत् षण्मासमध्ये न कार्यम् । अत्रिः । कुले ऋतुत्रयादवाग्मंडनान्न तु मुंडनम् । प्रवेशान्निर्गमं चैव न कुर्यान्मंगलत्रयमिति। अत्र विशेषः शाीये। व्रतं समावर्तनकं सचौलं केशांतमेतानि वदंति तज्ज्ञाः । क्षौरं पुरस्कृत्य भवंति यस्माच्चत्वारि तस्मादिह मुंडनानि । चूडासीमंतकेशांतविवाहोपनयान् बुधाः । गुरु . मंगलमित्याहुस्तदन्यलघु मंगलम् ॥ ज्येष्ठं कृत्वा तु षण्मासं न कुर्याल्लघु मंगलम् । कुर्वति मुनयः केचिदन्यस्मिन्नपि वत्सरे ॥ लघु वा मंगलं कार्यं कार्यं नैमित्तिकं हि तु । पुत्रोद्दाहः प्रवेशाख्यः क
१ कुर्यात्न.
१६
Aho! Shrutgyanam