________________
१२०
मुहूर्तचिंतामणौ लमेव । वस्तुतस्तु वसिष्ठेन उभयमासविधानात्सौरचांद्रमासैक्ये उत्तमो विवाहः । एकतरपक्षाश्रयेण मध्यमः । दिनाधिपे मेषवषालिकुंभनृयुग्मनक्राख्यघटःसंस्थे । माघद्वये माधवशुक्रयोश्च मुख्योऽथवा कार्तिकसौम्ययोश्चेति । अथ प्रसंगात्सौरचांद्रमासविधायकवचनानि तेषां व्यवस्था च लिख्यते । तत्र ऋष्यशृंगः । विवाहव्रतयज्ञेषु सौरमानं विधीयते । गाग्र्योऽपि । विवाहोत्सवयज्ञेषु सौरमा प्रशस्यते । वृद्धगर्गः । विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृत इत्येवमादीनि सौरमासविधायकवचनानि । अथ चांद्रमासविधायकानि । तथा च वसिष्ठः । उद्वाहयज्ञोपनयप्रतिष्ठातिथिव्रतक्षौरमहोत्सवाद्यम् । पर्वक्रिया वास्तुगहप्रवेशाः सर्वं हि चांद्रेण विगृह्यते तत् । नारदः । यात्रोद्वाहव्रतक्षौरतिथिवर्षेशनिर्णयम् । पर्ववास्तूपवासादि कृच्छ्रे चांद्रेण गृह्यत इत्यादीनि तत्रैकतरमासावलंबनेऽपरवैयर्थ्यं स्यादित्यत्र समाधीयते । यत्र सौरचांद्रमानाभ्यां मासशुद्धिरुपलभ्यते स उत्तमो विवाहः एकतरपक्षावलंबने मध्यम इत्युक्तं प्राक् मध्यमपक्षावलंबनं च अवश्यदेया कन्या विषयं वेदितव्यम् । अपरे । पुनर्देशविवाहयोः तथा । तापिनीकृष्णयोर्मध्ये चांद्रो मासः प्रशस्यते । अन्येषु सर्वदेशेषु सौरो व्रतविवाहयोः । तथा । विंध्याद्रेर्दक्षिणे भागे चांद्रो मासः प्रशस्यते । उदग्भागे तु विंध्यस्य सौरं मानं विधीयते ॥ अन्येषु सर्वदेशेषु मिश्रमानं प्रकल्पयेदिति ॥१३॥
अथ मासप्रसंगाजन्ममासादिप्रयुक्तनिषेधविधीन रथोद्धतयाहआद्यगर्भसुतकन्ययोईयोर्जन्ममासभतिथौ करग्रहः॥ नोचितोऽथ विबुधैः प्रशस्यते चेद्वितीयजनुषोः सुतप्रदः॥ १४ ॥
आयेति ॥ यस्मिन् चांद्रे मासे जन्म स जन्ममासः । जन्मतिथिमारभ्य त्रिंशत्तिथ्यात्मको मासो जन्ममासो वेत्युच्यते । पक्षद्वयमध्ये प्रथमप्रकारेण प्रतिपादितम् । जन्मनक्षत्रं जन्मतिथिः । समाहारद्वंद्वः जन्ममुहूर्तोऽपि तत्राद्यगर्भयोः सुतकन्ययोईयोः करग्रहो विवाहो नोचितो निषिद्धः । वसिष्ठः । स्वजन्ममासःतिथिक्षणेषु वैनाशिकावृक्षगणेषु चैवम् । नोद्वाहमात्माभ्युदयाभिकांक्षी नैवाद्यगर्भद्वितयं कदाचित् । एतदपवादोऽपि । जातं दिनं दूषयते वसिष्ठ इत्यादि पूर्वमुक्तम् । अथेति । द्वितीयजनुषोरनाद्यगर्भयोश्चेद्विवाहस्तर्हि सुतप्रदो विबुधैः पंडितैः प्रशस्यते । अत्राद्यगर्भराहित्यं सर्वथा विवक्षितम् । अथवा चेदनाद्यजनुषोरिति पठितव्यम् । तथा च च्यवनः । जन्मः जन्ममासे वा तारायामथ जन्मनि । जन्मलग्ने भवेद्वोढा पुत्राढ्या पतिवल्लभेति । एतच्चानाद्यगर्भविषयम् । आद्यगर्भ साक्षान्निषेधात् ॥ १४ ॥
ज्येष्ठमासे विशेषं शालिन्याहज्येष्ठद्वंदं मध्यमं संप्रदिष्टं त्रिज्येष्ठं चेन्नैव युक्तं कदापि ॥ ५ केचित्सूर्यं वह्निगं प्रोज्झ्य चाहु वान्योन्यं ज्येष्ठयोः स्याद्विवाहः १५
Aho ! Shrutgyanam